सञ्जय उवाच 001
आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ 001a
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि 001c
तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च 002a
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् 002c
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम 002e
सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः 003a
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् 003c
आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः 004a
न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत 004c
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः 004e
तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् 005a
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् 005c
प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे 006a
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव 006c
आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् 007a
दधारैको रणे पाण्डून्कृतवर्मा महारथः 007c
यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् 008a
पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत् 008c
तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् 009a
यदेनं सहिताः पार्था नातिचक्रमुराहवे 009c
ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः 010a
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् 010c
सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः 011a
शतेन नकुलश्चापि हार्दिक्यं समविध्यत 011c
द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः 012a
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् 012c
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः 012e
शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः 013a
पुनर्विव्याध विंशत्या सायकानां हसन्निव 013c
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् 014a
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः 014c
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् 014e
अथैनं छिन्नधन्वानं त्वरमाणो महारथः 015a
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः 015c
स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः 016a
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः 016c
भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः 017a
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् 017c
तं तथा कोष्ठकीकृत्य रथवंशेन मारिष 018a
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे 018c
प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः 019a
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् 019c
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति 019e
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा 020a
कृतवर्माणमभितः प्रजज्वाल सुदारुणा 020c
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् 021a
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा 021c
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा 022a
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता 022c
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् 022e
ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् 023a
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् 023c
अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे 024a
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह 024c
भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष 025a
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे 025c
ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव 026a
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत 026c
त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् 027a
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः 027c
शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः 028a
धनुश्चिच्छेद समरे प्रहसन्निव भारत 028c
शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् 029a
असिं जग्राह समरे शतचन्द्रं च भास्वरम् 029c
भ्रामयित्वा महाचर्म चामीकरविभूषितम् 030a
तमसिं प्रेषयामास कृतवर्मरथं प्रति 030c
स तस्य सशरं चापं छित्त्वा सङ्ख्ये महानसिः 031a
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् 031c
एतस्मिन्नेव काले तु त्वरमाणा महारथाः 032a
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे 032c
अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः 033a
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा 033c
विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः 034a
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च 034c
धनुरन्यत्समादाय शिखण्डी तु महायशाः 035a
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् 035c
ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः 036a
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् 036c
भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः 037a
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् 037c
तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ 038a
समासेदतुरन्योन्यं शरसङ्घैररिन्दमौ 038c
विधुन्वानौ धनुःश्रेष्ठे सन्दधानौ च सायकान् 039a
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ 039c
तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ 040a
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव 040c
कृतवर्मा तु रभसं याज्ञसेनिं महारथम् 041a
विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः 041c
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 042a
विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः 042c
तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ 043a
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह 043c
शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् 044a
अपोवाह रणाद्यन्ता त्वरमाणो महारथम् 044c
सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् 045a
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे 045c
तत्राद्भुतं परं चक्रे कृतवर्मा महारथः 046a
यदेकः समरे पार्थान्वारयामास सानुगान् 046c
पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि 047a
केकयांश्च महावीर्यान्कृतवर्मा महारथः 047c
ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः 048a
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे 048c
जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् 049a
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः 049c
ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः 050a
विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः 050c