धृतराष्ट्र उवाच 001
एवं बहुविधं सैन्यमेवं प्रविचितं वरम् 001a
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय 001c
नित्यं पूजितमस्माभिरभिकामं च नः सदा 002a
प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् 002c
नातिवृद्धमबालं च न कृशं नातिपीवरम् 003a
लघुवृत्तायतप्राणं सारगात्रमनामयम् 003c
आत्तसन्नाहसम्पन्नं बहुशस्त्रपरिच्छदम् 004a
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् 004c
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते 005a
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् 005c
नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् 006a
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् 006c
न गोष्ठ्या नोपचारेण न सम्बन्धनिमित्ततः 007a
नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह 007c
कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् 008a
कृतमानोपकारं च यशस्वि च मनस्वि च 008c
सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः 009a
लोकपालोपमैस्तात पालितं नरसत्तमैः 009c
बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः 010a
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः 010c
महोदधिमिवापूर्णमापगाभिः समन्ततः 011a
अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम् 011c
योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् 012a
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् 012c
ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् 013a
वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् 013c
द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् 014a
जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् 014c
गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे 015a
सञ्जयैकरथेनैव युयुधाने च मामकम् 015c
तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि 016a
सात्वते च रथोदारे मम सैन्यस्य सञ्जय 016c
तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ 017a
सिन्धुराजं च सम्प्रेक्ष्य गाण्डीवस्येषुगोचरे 017c
किं तदा कुरवः कृत्यं विदधुः कालचोदिताः 018a
दारुणैकायने काले कथं वा प्रतिपेदिरे 018c
ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान् 019a
विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै 019c
अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ 020a
न च वारयिता कश्चित्तयोरस्तीह सञ्जय 020c
भृताश्च बहवो योधाः परीक्ष्यैव महारथाः 021a
वेतनेन यथायोग्यं प्रियवादेन चापरे 021c
अकारणभृतस्तात मम सैन्ये न विद्यते 022a
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् 022c
न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय 023a
अल्पदानभृतस्तात न कुप्यभृतको नरः 023c
पूजिता हि यथाशक्त्या दानमानासनैर्मया 024a
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः 024c
ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना 025a
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः 025c
रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः 026a
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः 026c
अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् 027a
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत 027c
सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् 028a
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत 028c
सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ 029a
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः 029c
दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् 030a
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः 030c
दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च 031a
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः 031c
विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये 032a
पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः 032c
शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च 033a
हतांश्च योधान्सन्दृश्य मन्ये शोचन्ति पुत्रकाः 033c
व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः 034a
धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः 034c
विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् 035a
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः 035c
पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः 036a
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः 036c
द्रोणस्य समतिक्रान्तावनीकमपराजितौ 037a
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः 037c
सम्मूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ 038a
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ 038c
तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे 039a
भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः 039c
तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु 040a
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय 040c
द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः 041a
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे 041c
बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः 042a
भारद्वाजस्तथा तेषु कृतवैरो महारथः 042c
अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति 043a
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय 043c