सञ्जय उवाच 001
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया 001a
धर्मराजो महाराज स्वेनानीकेन संवृतः 001c
प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः 001e
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः 002a
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः 002c
आगच्छत प्रहरत द्रुतं विपरिधावत 003a
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः 003c
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये 004a
इति ब्रुवन्तो वेगेन समापेतुर्बलं तव 004c
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः 005a
ततः शब्दो महानासीद्युयुधानरथं प्रति 005c
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी 006a
सात्वतेन महाराज शतधाभिव्यदीर्यत 006c
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः 007a
सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् 007c
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना 008a
आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् 008c
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष 009a
चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः 009c
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः 010a
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते 010c
हस्तिहस्तोपमैश्चापि भुजगाभोगसन्निभैः 011a
ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम 011c
शशाङ्कसन्निकाशैश्च वदनैश्चारुकुण्डलैः 012a
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी 012c
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः 013a
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः 013c
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः 014a
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः 014c
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना 014e
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः 015a
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् 015c
ततस्तेनैव मार्गेण येन यातो धनञ्जयः 016a
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः 016c
भरद्वाजं समासाद्य युयुधानस्तु मारिष 017a
नाभ्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः 017c
निवार्य तु रणे द्रोणो युयुधानं महारथम् 018a
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः 018c
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः 019a
हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः 019c
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् 020a
स तं न ममृषे द्रोणं युयुधानो महारथः 020c
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः 021a
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च 021c
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः 022a
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् 022c
ध्वजमेकेन बाणेन विव्याध युधि मारिष 022e
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः 023a
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः 023c
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः 024a
प्राच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच ह 024c
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा 025a
युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत 025c
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव 026a
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् 026c
सात्यकिरुवाच 027
धनञ्जयस्य पदवीं धर्मराजस्य शासनात् 027a
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् 027c
सञ्जय उवाच 028
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् 028a
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् 028c
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे 029a
यत्तो याहि रणे सूत शृणु चेदं वचः परम् 029c
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् 030a
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् 030c
तदनन्तरमेतच्च बाह्लिकानां बलं महत् 031a
बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् 031c
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे 032a
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् 032c
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् 033a
मध्यमं जवमास्थाय वह मामत्र सारथे 033c
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः 034a
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः 034c
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते 035a
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् 035c
एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् 036a
स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् 036c
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् 037a
युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् 037c
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः 038a
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः 038c
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च 039a
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् 039c
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः 040a
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् 040c
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः 041a
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे 041c
स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः 042a
सात्वतेन महाराज कृतवर्मा न चक्षमे 042c
स वत्सदन्तं सन्धाय जिह्मगानलसन्निभम् 043a
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् 043c
स तस्य देहावरणं भित्त्वा देहं च सायकः 044a
सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः 044c
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् 045a
समार्गणगुणं राजन्कृतवर्मा शरासनम् 045c
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् 046a
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे 046c
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः 047a
अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः 047c
ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः 048a
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः 048c
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् 049a
छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः 049c
अथास्य भल्लेन शिरः सारथेः समकृन्तत 050a
स पपात हतः सूतो हार्दिक्यस्य महारथात् 050c
ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् 050e
अथ भोजस्त्वसम्भ्रान्तो निगृह्य तुरगान्स्वयम् 051a
तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् 051c
स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् 052a
व्यपेतभीरमित्राणामावहत्सुमहद्भयम् 052c
सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् 052e
युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः 053a
प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् 053c
स तत्र बहुभिः शूरैः सन्निरुद्धो महारथैः 054a
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः 054c
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च 055a
अन्वधावद्रणे यत्तो युयुधानं युयुत्सया 055c
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः 056a
न्यवारयन्त सङ्क्रुद्धाः पाण्डुसैन्ये बृहत्तमाः 056c
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् 057a
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः 057c
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा 057e
यतमानांस्तु तान्सर्वानीषद्विगतचेतसः 058a
अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् 058c
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे 059a
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः 059c