सञ्जय उवाच 001
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः 001a
पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः 001c
अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः 002a
न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति 002c
निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः 003a
धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ 003c
कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते 004a
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव 004c
न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते 005a
यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते 005c
तस्याहं पदवीं यास्ये सन्देशात्तव मानद 006a
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन 006c
यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर 007a
तथा तवापि वचनं विशिष्टतरमेव मे 007c
प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ 008a
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव 008c
तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो 009a
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम 009c
द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् 010a
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः 010c
यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् 011a
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः 011c
इतस्त्रियोजनं मन्ये तमध्वानं विशां पते 012a
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः 012c
त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् 013a
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना 013c
अनादिष्टस्तु गुरुणा को नु युध्येत मानवः 014a
आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः 014c
अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो 014e
हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् 015a
इष्वस्त्रवरसम्बाधं क्षोभयिष्ये बलार्णवम् 015c
यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि 016a
कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः 016c
आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः 017a
नागा मेघनिभा राजन्क्षरन्त इव तोयदाः 017c
नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः 018a
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः 018c
अथ यान्रथिनो राजन्समन्तादनुपश्यसि 019a
एते रुक्मरथा नाम राजपुत्रा महारथाः 019c
रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते 020a
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः 020c
गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा 021a
खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः 021c
शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् 022a
नित्यं च समरे राजन्विजिगीषन्ति मानवान् 022c
कर्णेन विजिता राजन्दुःशासनमनुव्रताः 023a
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति 023c
सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः 024a
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् 024c
ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः 025a
मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् 025c
एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव 026a
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः 026c
यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च 027a
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् 027c
किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना 028a
स्वलङ्कृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः 028c
आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् 029a
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् 029c
तेषामेते महामात्राः किराता युद्धदुर्मदाः 030a
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः 030c
एते विनिर्जिताः सर्वे सङ्ग्रामे सव्यसाचिना 031a
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः 031c
एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् 032a
सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् 032c
ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः 033a
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः 033c
जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः 034a
लब्धलक्ष्या रणे राजन्नैरावणसमा युधि 034c
उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः 035a
कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः 035c
सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः 036a
अनेकयोनयश्चान्ये तथा मानुषयोनयः 036c
अनीकमसतामेतद्धूमवर्णमुदीर्यते 037a
म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् 037c
एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् 038a
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् 038c
सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् 039a
कृतार्थमथ चात्मानं मन्यते कालचोदितः 039c
ते च सर्वेऽनुसम्प्राप्ता मम नाराचगोचरम् 040a
न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः 040c
तेन सम्भाविता नित्यं परवीर्योपजीविना 041a
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः 041c
ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः 042a
एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः 042c
शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः 043a
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः 043c
अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत 044a
यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः 044c
अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः 045a
तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः 045c
तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च 046a
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः 046c
अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमायुधम् 047a
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः 047c
काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः 048a
नानाशस्त्रसमावापैर्विविधायुधयोधिभिः 048c
किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः 049a
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः 049c
शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः 050a
अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः 050c
तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः 051a
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः 051c
तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः 052a
उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे 052c
तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च 053a
रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च 053c
ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः 054a
रसवत्पाययामासुः पानं मदसमीरिणम् 054c
पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् 055a
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः 055c
तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः 056a
संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे 056c
महाध्वजेन सिंहेन हेमकेसरमालिना 057a
संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः 057c
पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते 057e
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे 058a
योजयामास विधिवद्धेमभाण्डविभूषितान् 058c
दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा 059a
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः 059c
ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः 060a
स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् 060c
आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः 060e
ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु 061a
लोहिताक्षो बभौ तत्र मदविह्वललोचनः 061c
आलभ्य वीरकांस्यं च हर्षेण महतान्वितः 062a
द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः 062c
उत्सङ्गे धनुरादाय सशरं रथिनां वरः 062e
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः 063a
लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः 063c
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः 064a
तेन मूर्धन्युपाघ्रात आरुरोह महारथम् 064c
ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः 065a
अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः 065c
अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् 066a
त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते 066c
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् 067a
आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् 067c
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम 068a
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् 068c
तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये 069a
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम 069c
एवमुक्तः प्रत्युवाच भीमसेनं स माधवः 070a
गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम 070c
यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः 071a
निमित्तानि च धन्यानि यथा भीम वदन्ति मे 071c
निहते सैन्धवे पापे पाण्डवेन महात्मना 072a
परिष्वजिष्ये राजानं धर्मात्मानं न संशयः 072c
एतावदुक्त्वा भीमं तु विसृज्य च महामनाः 073a
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव 073c
तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप 074a
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत 074c
ततः प्रयातः सहसा सैन्यं तव स सात्यकिः 075a
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् 075c