सञ्जय उवाच 001
प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च 001a
कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् 001c
धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः 002a
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् 002c
श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत 003a
न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् 003c
एवंविधे तथा काले मदृशं प्रेक्ष्य सम्मतम् 004a
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् 004c
न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन 005a
त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे 005c
लोकत्रयं योधयेयं सदेवासुरमानुषम् 006a
त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् 006c
सुयोधनबलं त्वद्य योधयिष्ये समन्ततः 007a
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते 007c
कुशल्यहं कुशलिनं समासाद्य धनञ्जयम् 008a
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् 008c
अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप 009a
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः 009c
दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः 010a
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः 010c
अद्य माधव राजानमप्रमत्तोऽनुपालय 011a
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् 011c
त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे 012a
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् 012c
जानीषे हि रणे द्रोणं रभसं श्रेष्ठसम्मतम् 013a
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव 013c
ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति 014a
शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् 014c
एवं त्वयि समाधाय धर्मराजं नरोत्तमम् 015a
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि 015c
जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव 016a
धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् 016c
निगृहीते नरश्रेष्ठे भारद्वाजेन माधव 017a
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् 017c
एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि 018a
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः 018c
सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति 019a
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् 019c
स त्वमद्य महाबाहो प्रियार्थं मम माधव 020a
जयार्थं च यशोर्थं च रक्ष राजानमाहवे 020c
स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना 021a
भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो 021c
तस्यापि च महाबाहो नित्यं पश्यति संयुगे 022a
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो 022c
मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः 022e
सोऽहं सम्भावनां चैतामाचार्यवचनं च तत् 023a
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते 023c
आचार्यो लघुहस्तत्वादभेद्यकवचावृतः 024a
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः 024c
यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः 025a
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः 025c
कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि 026a
यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् 026c
मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम् 027a
न स जातु महाबाहुर्भारमुद्यम्य सीदति 027c
ये च सौवीरका योधास्तथा सैन्धवपौरवाः 028a
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः 028c
ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः 029a
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् 029c
उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा 030a
सराक्षसगणा राजन्सकिन्नरमहोरगा 030c
जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे 031a
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये 031c
यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ 032a
न तत्र कर्मणो व्यापत्कथञ्चिदपि विद्यते 032c
दैवं कृतास्त्रतां योगममर्षमपि चाहवे 033a
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय 033c
मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति 034a
द्रोणे चित्रास्त्रतां सङ्ख्ये राजंस्त्वमनुचिन्तय 034c
आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति 035a
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत 035c
कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि 036a
यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति 036c
न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे 037a
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते 037c
एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर 038a
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् 038c
युधिष्ठिर उवाच 039
एवमेतन्महाबाहो यथा वदसि माधव 039a
न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष 039c
करिष्ये परमं यत्नमात्मनो रक्षणं प्रति 040a
गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः 040c
आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति 041a
विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये 041c
स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः 042a
ममापि रक्षणं भीमः करिष्यति महाबलः 042c
पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः 043a
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः 043c
केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः 044a
विराटो द्रुपदश्चैव शिखण्डी च महारथः 044c
धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष 045a
नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा 045c
एते समाहितास्तात रक्षिष्यन्ति न संशयः 045e
न द्रोणः सह सैन्येन कृतवर्मा च संयुगे 046a
समासादयितुं शक्तो न च मां धर्षयिष्यति 046c
धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः 047a
वारयिष्यति विक्रम्य वेलेव मकरालयम् 047c
यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा 048a
न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथञ्चन 048c
एष द्रोणविनाशाय समुत्पन्नो हुताशनात् 049a
कवची स शरी खड्गी धन्वी च वरभूषणः 049c
विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम् 050a
धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति 050c