धृतराष्ट्र उवाच 001
भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् 001a
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे 001c
सञ्जय उवाच 002
शृणु राजन्महाप्राज्ञ सङ्ग्रामं लोमहर्षणम् 002a
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः 002c
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष 003a
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् 003c
तमापतन्तं सहसा भारद्वाजं महारथम् 004a
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् 004c
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः 005a
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः 005c
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः 006a
अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः 006c
दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः 007a
द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसन्निभैः 007c
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् 008a
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत 008c
ततः क्रुद्धो महेष्वासो भूय एव महाबलः 009a
सात्वतं पीडयामास शतेन नतपर्वणा 009c
स वध्यमानः समरे भारद्वाजेन सात्यकिः 010a
नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते 010c
विषण्णवदनश्चापि युयुधानोऽभवन्नृप 011a
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् 011c
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते 012a
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः 012c
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् 013a
युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत 013c
एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् 014a
ग्रस्यते युधि वीरेण भानुमानिव राहुणा 014c
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते 014e
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप 015a
अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत 015c
न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् 015e
असौ द्रोणो महेष्वासो युयुधानेन संयुगे 016a
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा 016c
तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः 017a
त्वयैव सहिता यत्ता युयुधानरथं प्रति 017c
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः 018a
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् 018c
एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः 019a
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् 019c
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् 020a
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः 020c
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् 021a
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः 021c
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् 022a
अतिथीनागतान्यद्वत्सलिलेनासनेन च 022c
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः 023a
आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा 023c
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् 024a
मध्यन्दिनमनुप्राप्तं सहस्रांशुमिव प्रभो 024c
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः 025a
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् 025c
वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा 026a
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः 026c
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः 027a
गभस्तय इवार्कस्य प्रतपन्तः समन्ततः 027c
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः 028a
महारथसमाख्याता धृष्टद्युम्नस्य सम्मताः 028c
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च 029a
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् 029c
केकयानां शतं हत्वा विद्राव्य च समन्ततः 030a
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः 030c
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि 031a
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः 031c
तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः 032a
वनौकसामिवारण्ये दह्यतां धूमकेतुना 032c
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप 033a
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः 033c
तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे 034a
न चाप्यभिययुः केचिदपरे नैव विव्यधुः 034c
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये 035a
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् 035c
पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् 036a
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु 036c
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति 036e
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः 037a
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः 037c
न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् 038a
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः 038c
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना 039a
अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत 039c
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः 040a
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् 040c
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः 041a
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः 041c
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव 042a
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके 042c
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः 043a
स कार्ये साम्पराये तु नियोज्य इति मे मतिः 043c
यथा च केशवो नित्यं पाण्डवानां परायणम् 044a
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः 044c
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि 045a
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि 045c
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे 046a
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ 046c
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः 047a
लोके विख्यायसे वीर कर्मभिः सत्यवागिति 047c
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् 048a
पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् 048c
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः 049a
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि 049c
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः 050a
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो 050c
एक एव सदा कृष्णो मित्राणामभयङ्करः 051a
रणे सन्त्यजति प्राणान्द्वितीयस्त्वं च सात्यके 051c
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः 052a
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः 052c
ईदृशे तु परामर्दे वर्तमानस्य माधव 053a
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते 053c
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः 054a
मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत् 054c
लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः 055a
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे 055c
महास्कन्धो महोरस्को महाबाहुर्महाधनुः 056a
महाबलो महावीर्यः स महात्मा महारथः 056c
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे 057a
युयुधानः सहायो मे प्रमथिष्यति कौरवान् 057c
अस्मदर्थं च राजेन्द्र सन्नह्येद्यदि केशवः 058a
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः 058c
गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः 059a
सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि 059c
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् 060a
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः 060c
इति द्वैतवने तात मामुवाच धनञ्जयः 061a
परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि 061c
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि 062a
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः 062c
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति 063a
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् 063c
न तत्सौहृदमन्येषु मया शैनेय लक्षितम् 064a
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे 064c
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च 065a
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव 065c
सत्यस्य च महाबाहो अनुकम्पार्थमेव च 066a
अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि 066c
सुयोधनो हि सहसा गतो द्रोणेन दंशितः 067a
पूर्वमेव तु यातास्ते कौरवाणां महारथाः 067c
सुमहान्निनदश्चैव श्रूयते विजयं प्रति 068a
स शैनेय जवेनात्र गन्तुमर्हसि माधव 068c
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः 069a
द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति 069c
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे 070a
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् 070c
महामारुतवेगेन समुद्रमिव पर्वसु 071a
धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना 071c
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह 072a
सैन्यं रजःसमुद्धूतमेतत्सम्परिवर्तते 072c
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः 073a
अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा 073c
नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः 074a
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः 074c
शरशक्तिध्वजवनं हयनागसमाकुलम् 075a
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् 075c
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् 076a
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा 076c
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः 077a
सादिनां द्रवतां चैव शृणु कम्पयतां महीम् 077c
पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः 078a
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् 078c
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् 079a
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः 079c
सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् 079e
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः 080a
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् 080c
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते 081a
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा 081c
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् 081e
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् 082a
अविषह्यां महाबाहुः सुरैरपि महामृधे 082c
न च मे वर्तते बुद्धिरद्य युद्धे कथञ्चन 083a
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् 083c
प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः 083e
युगपच्च समेतानां कार्याणां त्वं विचक्षणः 084a
महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव 084c
तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा 085a
अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे 085c
नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् 086a
स हि शक्तो रणे तात त्रील्ँलोकानपि सङ्गतान् 086c
विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते 087a
किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् 087c
अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि 088a
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् 088c
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा 089a
तादृशस्येदृशे काले मादृशेनाभिचोदितः 089c
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ 090a
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः 090c
अस्त्रे नारायणसमः सङ्कर्षणसमो बले 091a
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि 091c
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् 092a
त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते 092c
नासाध्यं विद्यते लोके सात्यकेरिति माधव 093a
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल 093c
सम्भावना हि लोकस्य तव पार्थस्य चोभयोः 094a
नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि 094c
परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् 095a
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् 095c
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम् 096a
भीरूणामसतां मार्गो नैष दाशार्हसेवितः 096c
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव 097a
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः 097c
कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् 098a
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् 098c
वासुदेवमतं चैतन्मम चैवार्जुनस्य च 099a
सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः 099c
एतद्वचनमाज्ञाय मम सत्यपराक्रम 100a
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः 100c
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः 101a
यथार्हमात्मनः कर्म रणे सात्वत दर्शय 101c