सञ्जय उवाच 001
अलम्बुसं तथा युद्धे विचरन्तमभीतवत् 001a
हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः 001c
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः 002a
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव 002c
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् 003a
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे 003c
अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः 003e
तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् 004a
विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः 004c
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ 005a
निर्विशेषमयुध्येतां मायाभिरितरेतरम् 005c
मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् 006a
मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् 006c
यां यां घटोत्कचो युद्धे मायां दर्शयते नृप 007a
तां तामलम्बुसो राजन्माययैव निजघ्निवान् 007c
तं तथा युध्यमानं तु मायायुद्धविशारदम् 008a
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः 008c
त एनं भृशसङ्क्रुद्धाः सर्वतः प्रवरा रथैः 009a
अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादयो नृप 009c
त एनं कोष्ठकीकृत्य रथवंशेन मारिष 010a
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् 010c
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया 011a
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः 011c
स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् 012a
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः 012c
युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः 012e
नकुलं च त्रिसप्तत्या द्रौपदेयांश्च मारिष 013a
पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह 013c
तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः 014a
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत 014c
नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः 014e
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः 015a
पुनर्विव्याध सप्तत्या ननाद च महाबलः 015c
सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः 016a
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः 016c
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः 017a
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः 017c
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः 018a
व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् 018c
ते शरा नतपर्वाणो विविशू राक्षसं तदा 019a
रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः 019c
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् 020a
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः 020c
स वध्यमानः समरे पाण्डवैर्जितकाशिभिः 021a
दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् 021c
समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः 022a
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि 022c
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च 023a
भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् 023c
स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः 024a
घटोत्कचेन वीरेण हतः सालकटङ्कटः 024c
ततः सुमनसः पार्था हते तस्मिन्निशाचरे 025a
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह 025c
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् 026a
अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् 026c
हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ 026e
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः 027a
यदृच्छया निपतितं भूमावङ्गारकं यथा 027c
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् 028a
मुमोच बलवन्नादं बलं हत्वेव वासवः 028c
स पूज्यमानः पितृभिः सबान्धवैर्घटोत्कचः कर्मणि दुष्करे कृते 029a
रिपुं निहत्याभिननन्द वै तदा अलम्बुसं पक्वमलम्बुसं यथा 029c
ततो निनादः सुमहान्समुत्थितः सशङ्खनानाविधबाणघोषवान् 030a
निशम्य तं प्रत्यनदंस्तु कौरवास्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् 030c