सञ्जय उवाच 001
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः 001a
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 001c
ते पीडिता भृशं तेन रौद्रेण सहसा विभो 002a
प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन 002c
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् 003a
द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः 003c
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः 004a
विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् 004c
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् 005a
एकैकं हृदि चाजघ्ने एकैकेन महायशाः 005c
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना 006a
परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् 006c
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः 007a
प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति 007c
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः 008a
ननाद बलवन्नादं विव्याध च शितैः शरैः 008c
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् 009a
नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् 009c
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् 010a
क्षुरप्रेण शिरो राजन्निचकर्त महामनाः 010c
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् 011a
भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् 011c
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः 012a
वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा 012c
अलम्बुसस्तु समरे भीमसेनं महाबलम् 013a
योधयामास सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा 013c
सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ 014a
विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा 014c
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः 015a
विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् 015c
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् 016a
अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः 016c
स भीमं पञ्चभिर्विद्ध्वा शरैः सन्नतपर्वभिः 017a
भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिन्दमः 017c
पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा 017e
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः 018a
निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः 018c
प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्छितः 019a
विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् 019c
अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः 019e
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः 020a
शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः 020c
स वध्यमानः समरे भीमचापच्युतैः शरैः 021a
स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना 021c
घोरं रूपमथो कृत्वा भीमसेनमभाषत 022a
तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् 022c
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली 023a
परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया 023c
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा 024a
महाता शरवर्षेण भृशं तं समवाकिरत् 024c
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा 025a
आकाशं पूरयामास शरैः सन्नतपर्वभिः 025c
स वध्यमानो भीमेन निमेषाद्रथमास्थितः 026a
जगाम धरणीं क्षुद्रः खं चैव सहसागमत् 026c
उच्चावचानि रूपाणि चकार सुबहूनि च 027a
उच्चावचास्तथा वाचो व्याजहार समन्ततः 027c
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः 028a
हयाश्च बहवो राजन्पत्तयश्च तथा पुनः 028c
रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः 028e
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् 029a
छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् 029c
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् 030a
वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् 030c
तं तथा समरे राजन्विचरन्तमभीतवत् 031a
पाण्डवा भृशसंविग्नाः प्रापश्यंस्तत्स्य विक्रमम् 031c
तावकानां तु सैन्यानां प्रहर्षः समजायत 032a
वादित्रनिनदश्चोग्रः सुमहाल्ँलोमहर्षणः 032c
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः 033a
नामृष्यत यथा नागस्तलशब्दं समीरितम् 033c
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः 034a
सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष 034c
ततः शरसहस्राणि प्रादुरासन्समन्ततः 035a
तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् 035c
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे 036a
राक्षसस्य महामायां हत्वा राक्षसमार्दयत् 036c
स वध्यमानो बहुधा भीमसेनेन राक्षसः 037a
सन्त्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् 037c
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना 038a
अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् 038c
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् 039a
प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः 039c