सञ्जय उवाच 001
बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् 001a
क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः 001c
बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् 002a
आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया 002c
क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः 003a
धनुश्चिच्छेद भल्लेन पीतेन निशितेन च 003c
अथैनं छिन्नधन्वानं शरेण नतपर्वणा 004a
विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् 004c
अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव 005a
व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् 005c
ततोऽपरेण भल्लेन पीतेन निशितेन च 006a
जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् 006c
तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् 007a
सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् 007c
तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः 008a
सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् 008c
धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी 009a
वीरधन्वा महेष्वासो वारयामास भारत 009c
तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ 010a
शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः 010c
तावुभौ नरशार्दूलौ युयुधाते परस्परम् 011a
महावने तीव्रमदौ वारणाविव यूथपौ 011c
गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ 012a
युयुधाते महावीर्यौ परस्परजिघांसया 012c
तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते 013a
सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम् 013c
वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् 014a
द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत 014c
तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः 015a
शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् 015c
तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत 016a
चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति 016c
स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् 017a
निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् 017c
तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे 018a
बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः 018c
सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् 019a
ननाद च महानादं तर्जयन्पाण्डवं रणे 019c
मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः 020a
भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव 020c
तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् 021a
दुर्मुखो नवभिर्बाणैस्ताडयामास भारत 021c
दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः 022a
जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः 022c
अथापरेण भल्लेन पीतेन निशितेन च 023a
चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् 023c
क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः 024a
सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः 024c
हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा 025a
आरुरोह रथं राजन्निरमित्रस्य भारत 025c
सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे 026a
जघान पृतनामध्ये भल्लेन परवीरहा 026c
स पपात रथोपस्थान्निरमित्रो जनेश्वरः 027a
त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् 027c
तं तु हत्वा महाबाहुः सहदेवो व्यरोचत 028a
यथा दाशरथी रामः खरं हत्वा महाबलम् 028c
हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर 029a
राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् 029c
नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् 030a
मुहूर्ताज्जितवान्सङ्ख्ये तदद्भुतमिवाभवत् 030c
सात्यकिं व्याघ्रदत्तस्तु शरैः सन्नतपर्वभिः 031a
चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे 031c
तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् 032a
साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् 032c
कुमारे निहते तस्मिन्मगधस्य सुते प्रभो 033a
मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् 033c
विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः 034a
भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि 034c
अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् 035a
तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः 035c
नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ 035e
मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः 036a
बलं तेऽभज्यत विभो युयुधानशरार्दितम् 036c
नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः 037a
विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः 037c
भज्यमानं बलं राजन्सात्वतेन महात्मना 038a
नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना 038c
ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी 039a
सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे 039c