धृतराष्ट्र उवाच 001
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः 001a
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय 001c
सञ्जय उवाच 002
अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे 002a
पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत 002c
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः 003a
अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष 003c
ततः सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः 004a
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः 004c
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह 005a
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् 005c
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः 006a
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् 006c
तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः 007a
प्रवपन्निशितान्बाणान्महेन्द्राशनिसन्निभान् 007c
तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः 008a
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः 008c
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः 009a
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् 009c
तमापतन्तं सहसा व्यादितास्यमिवान्तकम् 010a
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् 010c
युधिष्ठिरं महाराज जिगीषुं समवस्थितम् 011a
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् 011c
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी 012a
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो 012c
सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः 013a
शरैरनेकसाहस्रैः समवाकिरदाशुगैः 013c
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् 014a
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः 014c
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् 015a
संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् 015c
भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् 016a
प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः 016c
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे 017a
यादृगेव पुरा वृत्तं रामरावणयोर्नृप 017c
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् 018a
आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत 018c
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे 019a
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना 019c
भूय एव तु विंशत्या सायकानां समाचिनोत् 020a
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् 020c
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः 021a
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् 021c
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे 022a
चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः 022c
अथैनं छिन्नधन्वानं त्वरमाणो महारथः 023a
शरैरनेकसाहस्रैः पुरयामास सर्वतः 023c
अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः 024a
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् 024c
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् 025a
हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना 025c
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः 026a
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे 026c
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् 026e
ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः 027a
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् 027c
छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः 028a
शक्तिं जग्राह समरे गिरीणामपि दारणीम् 028c
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् 028e
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली 029a
नादेन सर्वभूतानि त्रासयन्निव भारत 029c
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे 030a
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् 030c
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा 031a
प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा 031c
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा 031e
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते 032a
प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः 032c
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् 033a
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः 033c
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् 034a
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत 034c
विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः 035a
क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः 035c
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः 036a
गदां चिक्षेप सहसा धर्मपुत्राय मारिष 036c
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः 037a
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः 037c
ते गदे सहसा मुक्ते समासाद्य परस्परम् 038a
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले 038c
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष 039a
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः 039c
धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् 040a
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः 040c
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः 041a
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ 041c
विरथं तं समालोक्य व्यायुधं च विशेषतः 042a
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो 042c
मुञ्चन्निषुगणांस्तीक्ष्णाल्ँलघुहस्तो दृढव्रतः 043a
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः 043c
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना 044a
हा हेति सहसा शब्दः पाण्डूनां समजायत 044c
हृतो राजा हृतो राजा भारद्वाजेन मारिष 045a
इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः 045c
ततस्त्वरितमारुह्य सहदेवरथं नृपः 046a
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः 046c