धृतराष्ट्र उवाच 001
ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया 001a
पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय 001c
सञ्जय उवाच 002
ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् 002a
रूपतो वर्णतश्चैव नामतश्च निबोध मे 002c
तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः 003a
प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः 003c
काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः 004a
काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः 004c
ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः 005a
नानावर्णविरागाभिर्विबभुः सर्वतो वृताः 005c
पताकाश्च ततस्तास्तु श्वसनेन समीरिताः 006a
नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः 006c
इन्द्रायुधसवर्णाभाः पताका भरतर्षभ 007a
दोधूयमाना रथिनां शोभयन्ति महारथान् 007c
सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम् 008a
धनञ्जयस्य सङ्ग्रामे प्रत्यपश्याम भैरवम् 008c
स वानरवरो राजन्पताकाभिरलङ्कृतः 009a
त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः 009c
तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत 010a
ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् 010c
काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् 011a
नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् 011c
हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे 012a
आहवे खं महाराज ददृशे पूरयन्निव 012c
पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे 013a
नृत्यतीव रथोपस्थे श्वसनेन समीरितः 013c
आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः 014a
गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः 014c
स तेन भ्राजते राजन्गोवृषेण महारथः 015a
त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते 015c
मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् 016a
व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् 016c
तेन तस्य रथो भाति मयूरेण महात्मनः 017a
यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता 017c
मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव 018a
सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् 018c
सा सीता भ्राजते तस्य रथमास्थाय मारिष 019a
सर्वबीजविरूढेव यथा सीता श्रिया वृता 019c
वराहः सिन्धुराजस्य राजतोऽभिविराजते 020a
ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः 020c
शुशुभे केतुना तेन राजतेन जयद्रथः 021a
यथा देवासुरे युद्धे पुरा पूषा स्म शोभते 021c
सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः 022a
ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते 022c
स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते 023a
राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः 023c
शलस्य तु महाराज राजतो द्विरदो महान् 024a
केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः 024c
स केतुः शोभयामास सैन्यं ते भरतर्षभ 025a
यथा श्वेतो महानागो देवराजचमूं तथा 025c
नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः 026a
किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे 026c
व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते 027a
ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा 027c
नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः 028a
व्यदीपयंस्ते पृतनां युगान्तादित्यसन्निभाः 028c
दशमस्त्वर्जुनस्यासीदेक एव महाकपिः 029a
अदीप्यतार्जुनो येन हिमवानिव वह्निना 029c
ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः 030a
कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः 030c
तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः 031a
गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव 031c
तवापराधाद्धि नरा निहता बहुधा युधि 032a
नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः 032c
तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् 033a
दुर्योधनमुखानां च पाण्डूनामृषभस्य च 033c
तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः 034a
यदेको बहुभिः सार्धं समागच्छदभीतवत् 034c
अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः 035a
जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् 035c
तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः 036a
अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः 036c
ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः 037a
अदृश्यं समरे चक्रुः सायकौघैः समन्ततः 037c
संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने 038a
महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः 038c