सञ्जय उवाच 001
तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ 001a
प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् 001c
सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः 002a
दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः 002c
रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते 003a
कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव 003c
भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः 004a
कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः 004c
ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः 005a
व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः 005c
ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः 006a
समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः 006c
कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् 007a
व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश 007c
आजानेयैर्महावेगैर्नानादेशसमुत्थितैः 008a
पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः 008c
कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः 009a
धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् 009c
ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः 010a
पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् 010c
तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ 011a
प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि 011c
देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः 011e
शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः 012a
पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् 012c
तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः 013a
सर्वशब्दानतिक्रम्य पूरयामास रोदसी 013c
तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले 014a
भीरूणां त्रासजनने शूराणां हर्षवर्धने 014c
प्रवादितासु भेरीषु झर्झरेष्वानकेषु च 015a
मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः 015c
महारथसमाख्याता दुर्योधनहितैषिणः 016a
अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः 016c
नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः 016e
अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः 017a
कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च 017c
बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् 018a
उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो 018c
तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् 019a
बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् 019c
स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् 020a
त्रासयामास तत्सैन्यं युगान्त इव सभृतः 020c
ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः 021a
जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् 021c
ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् 022a
अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः 022c
तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् 023a
अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने 023c
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा 024a
शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् 024c
गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् 025a
भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः 025c
कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः 026a
जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः 026c
मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे 026e
ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् 027a
वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः 027c
प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः 028a
प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् 028c
कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः 029a
शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत 029c
सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः 030a
शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः 030c
गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह 031a
पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् 031c
भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः 032a
अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह 032c
ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः 033a
प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव 033c