सञ्जय उवाच 001
एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः 001a
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् 001c
वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे 002a
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् 002c
तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः 003a
अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः 003c
तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च 004a
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः 004c
अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् 005a
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः 005c
अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् 006a
त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः 006c
कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ 007a
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव 007c
न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः 008a
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः 008c
विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् 009a
व्यर्थान्निपततः सङ्ख्ये दुर्योधनरथं प्रति 009c
वज्राशनिसमा घोराः परकायावभेदिनः 010a
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना 010c
अर्जुन उवाच 011
द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता 011a
अन्ते विहितमस्त्राणामेतत्कवचधारणम् 011c
अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि 012a
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् 012c
न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन 013a
अपि वज्रेण गोविन्द स्वयं मघवता युधि 013c
जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् 014a
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते 014c
तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव 015a
न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन 015c
एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् 016a
तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् 016c
यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव 017a
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् 017c
पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन 018a
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् 018c
इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् 019a
पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् 019c
दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् 020a
नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया 020c
सञ्जय उवाच 021
एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् 021a
विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् 021c
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना 021e
तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना 022a
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः 022c
नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन 023a
अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम 023c
ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः 024a
अविध्यत रणे राजञ्शरैराशीविषोपमैः 024c
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ 024e
शरवर्षेण महता ततोऽहृष्यन्त तावकाः 025a
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा 025c
ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् 026a
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् 026c
ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः 027a
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी 027c
धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् 028a
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे 028c
दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् 029a
अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा 029c
तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः 030a
समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् 030c
ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः 031a
पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् 031c
अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत 032a
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ 032c
ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् 033a
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः 033c
ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् 034a
स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः 034c
ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् 035a
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् 035c
ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् 036a
महता शरवर्षेण तलशब्देन चार्जुनः 036c
पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः 037a
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् 037c
तस्य शङ्खस्य नादेन धनुषो निस्वनेन च 038a
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः 038c
तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः 039a
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः 039c
ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु 040a
चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुन्धराम् 040c
बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः 041a
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि 041c
तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् 042a
प्रदध्मतुस्तदा शङ्खौ वासुदेवधनञ्जयौ 042c
तेन शब्देन महता पूरितेयं वसुन्धरा 043a
सशैला सार्णवद्वीपा सपाताला विशां पते 043c
स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश 044a
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले 044c
तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ 045a
संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः 045c
अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ 046a
अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् 046c