वासुदेव उवाच 001
सुयोधनमतिक्रान्तमेनं पश्य धनञ्जय 001a
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः 001c
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः 002a
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः 002c
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः 003a
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् 003c
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ 004a
अत्र वो द्यूतमायातं विजयायेतराय वा 004c
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् 005a
एष मूलमनर्थानां पाण्डवानां महारथः 005c
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः 006a
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् 006c
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम् 007a
स यथा जीवितं जह्यात्तथा कुरु धनञ्जय 007c
ऐश्वर्यमदसम्मूढो नैष दुःखमुपेयिवान् 008a
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ 008c
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः 009a
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः 009c
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् 010a
जह्येनं वै महाबाहो यथा वृत्रं पुरन्दरः 010c
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ 011a
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् 011c
बहूनि सुनृशंसानि कृतान्येतेन मानद 012a
युष्मासु पापमतिना अपापेष्वेव नित्यदा 012c
तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् 013a
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् 013c
निकृत्या राज्यहरणं वनवासं च पाण्डव 014a
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम 014c
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते 015a
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः 015c
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह 016a
दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः 016c
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् 017a
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे 017c
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् 018a
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् 018c
सञ्जय उवाच 019
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम 019a
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः 019c
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् 020a
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे 020c
अपि तस्या अनर्हायाः परिक्लेशस्य माधव 021a
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे 021c
इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् 022a
प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् 022c
तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ 023a
न चकार भयं प्राप्ते भये महति मारिष 023c
तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् 024a
यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् 024c
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते 025a
महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे 025c
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति 026a
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् 026c
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना 027a
संरम्भमगमद्भूयः स च तस्मिन्परन्तपः 027c
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ 028a
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः 028c
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष 029a
प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् 029c
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः 030a
व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ 030c
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयाश्च सर्वशः 031a
निराशाः समपद्यन्त पुत्रस्य तव जीविते 031c
शोकमीयुः परं चैव कुरवः सर्व एव ते 032a
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् 032c
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ 033a
हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः 033c
जनस्य सन्निनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् 034a
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे 034c
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः 035a
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् 035c
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च 036a
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना 036c
यद्बलं तव वीर्यं च केशवस्य तथैव च 037a
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् 037c
अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते 038a
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय 038c