सञ्जय उवाच 001
स्रंसन्त इव मज्जानस्तावकानां भयान्नृप 001a
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ 001c
सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः 002a
स्थिरीबूता महात्मानः प्रत्यगच्छन्धनञ्जयम् 002c
ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः 003a
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव 003c
असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः 004a
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् 004c
तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ 005a
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ 005c
मत्स्याविव महाजालं विदार्य विगतज्वरौ 006a
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् 006c
विमुक्तौ शस्त्रसम्बाधाद्द्रोणानीकात्सुदुर्भिदात् 007a
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ 007c
अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात् 008a
अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ 008c
विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव 009a
व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव 009c
तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः 010a
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् 010c
तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती 011a
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् 011c
आशा बलवती राजन्पुत्राणामभवत्तव 012a
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो 012c
तामाशां विफलां कृत्वा निस्तीर्णौ तौ परन्तपौ 013a
द्रोणानीकं महाराज भोजानीकं च दुस्तरम् 013c
अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ 014a
निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे 014c
मिथश्च समभाषेतामभीतौ भयवर्धनौ 015a
जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ 015c
असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः 016a
चक्षुर्विषयसम्प्राप्तो न नौ मोक्ष्यति सैन्धवः 016c
यद्यस्य समरे गोप्ता शक्रो देवगणैः सह 017a
तथाप्येनं हनिष्याव इति कृष्णावभाषताम् 017c
इति कृष्णौ महाबाहू मिथः कथयतां तदा 018a
सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः 018c
अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ 019a
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिन्दमौ 019c
व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् 020a
अदृश्येतां महाबाहू यथा मृत्युजरातिगौ 020c
तथा हि मुखवर्णोऽयमनयोरिति मेनिरे 021a
तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः 021c
द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् 022a
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ 022c
तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिन्दमौ 023a
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा 023c
शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् 024a
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे 024c
उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः 025a
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ 025c
द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसङ्कटात् 026a
अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः 026c
ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः 027a
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव 027c
बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः 028a
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः 028c
इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ 029a
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् 029c
जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया 030a
रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् 030c
यथा हि मुखवर्णोऽयमनयोरिति मेनिरे 031a
तव योधा महाराज हतमेव जयद्रथम् 031c
लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ 032a
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः 032c
शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः 033a
तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव 033c
हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः 034a
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा 034c
तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके 035a
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे 035c
तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनञ्जयौ 036a
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव 036c
द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा 037a
ययावेकरथेनाजौ हयसंस्कारवित्प्रभो 037c
कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः 038a
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप 038c
ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् 039a
प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनञ्जयम् 039c
सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः 040a
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् 040c
ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः 041a
ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो 041c
दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् 042a
अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः 042c