सञ्जय उवाच 001
सलिले जनिते तस्मिन्कौन्तेयेन महात्मना 001a
निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि 001c
वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः 002a
मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः 002c
अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् 003a
सिद्धचारणसङ्घानां सैनिकानां च सर्वशः 003c
पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः 004a
नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् 004c
आपतत्सु रथौघेषु प्रभूतगजवाजिषु 005a
नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति 005c
व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः 006a
न चाव्यथत धर्मात्मा वासविः परवीरहा 006c
स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् 007a
आगतानग्रसत्पार्थः सरितः सागरो यथा 007c
अस्त्रवेगेन महता पार्थो बाहुबलेन च 008a
सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् 008c
तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः 009a
अपूजयन्महाराज कौरवाः परमाद्भुतम् 009c
किमद्भुततरं लोके भविताप्यथ वाप्यभूत् 010a
यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे 010c
भयं विपुलमस्मासु तावधत्तां नरोत्तमौ 011a
तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि 011c
अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत 012a
अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा 012c
उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः 013a
मिषतां सर्वसैन्यानां त्वदीयानां विशां पते 013c
तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् 014a
सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि 014c
शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् 015a
उपावृत्य यथान्यायं पाययामास वारि सः 015c
स ताल्ँलब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् 016a
योजयामास संहृष्टः पुनरेव रथोत्तमे 016c
स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः 017a
समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् 017c
रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः 018a
दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् 018c
विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः 019a
धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् 019c
सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ 020a
बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् 020c
क्रोशतां यतमानानामसंसक्तौ परन्तपौ 021a
दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु 021c
तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् 022a
त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः 022c
रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् 023a
जयद्रथाय यात्येष कदर्थीकृत्य नो रणे 023c
तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः 024a
अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् 024c
सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः 025a
दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी 025c
विलयं समनुप्राप्ता तच्च राजा न बुध्यते 026a
इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत 026c
सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् 027a
तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् 027c
ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति 028a
निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः 028c
तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् 029a
नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् 029c
विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः 030a
यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् 030c
गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् 031a
बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् 031c
कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः 032a
तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः 032c
वातोद्धूतपताकान्तं रथं जलदनिस्वनम् 033a
घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् 033c
दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् 034a
शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् 034c
ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् 035a
क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् 035c
अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् 036a
दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे 036c