सञ्जय उवाच 001
परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः 001a
रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः 001c
तिष्ठतां युध्यमानानां पुनरावर्ततामपि 002a
भज्यतां जयतां चैव जगाम तदहः शनैः 002c
तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु 003a
अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः 003c
रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः 004a
चकार तत्र पन्थानं ययौ येन जनार्दनः 004c
यत्र यत्र रथो याति पाण्डवस्य महात्मनः 005a
तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते 005c
रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् 006a
उत्तमाधममध्यानि मण्डलानि विदर्शयन् 006c
ते तु नामाङ्किताः पीताः कालज्वलनसन्निभाः 007a
स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः 007c
वैणवायस्मयशराः स्वायता विविधाननाः 008a
रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे 008c
रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् 009a
रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् 009c
तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः 010a
तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् 010c
न तथा गच्छति रथस्तपनस्य विशां पते 011a
नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च 011c
नान्यस्य समरे राजन्गतपूर्वस्तथा रथः 012a
यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः 012c
प्रविश्य तु रणे राजन्केशवः परवीरहा 013a
सेनामध्ये हयांस्तूर्णं चोदयामास भारत 013c
ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः 014a
कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः 014c
क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः 015a
मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः 015c
हतानां वाजिनागानां रथानां च नरैः सह 016a
उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः 016c
एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप 017a
सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् 017c
तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् 018a
शराणां च शतेनाश्वानविध्येतां मुदान्वितौ 018c
तावर्जुनो महाराज नवभिर्नतपर्वभिः 019a
आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः 019c
ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् 020a
आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः 020c
तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः 021a
चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ 021c
अथान्ये धनुषी राजन्प्रगृह्य समरे तदा 022a
पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः 022c
तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः 023a
चिच्छेद धनुषी तूर्णं भूय एव धनञ्जयः 023c
तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः 024a
जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी 024c
ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत 025a
स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः 025c
विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् 026a
हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः 026c
अभ्यद्रवत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् 027a
गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः 027c
अनुविन्दस्तु गदया ललाटे मधुसूदनम् 028a
स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् 028c
तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः 029a
निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा 029c
ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः 030a
अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् 030c
तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ 031a
व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये 031c
तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनञ्जयः 032a
विबभौ जलदान्भित्त्वा दिवाकर इवोदितः 032c
तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः 033a
अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ 033c
श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् 034a
सिंहनादेन महता सर्वतः पर्यवारयन् 034c
तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः 035a
शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् 035c
शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः 036a
किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते 036c
ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा 037a
भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः 037c
मम त्वनन्तरं कृत्यं यद्वै तत्सन्निबोध मे 038a
हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव 038c
एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् 039a
ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् 039c
अर्जुन उवाच 040
अहमावारयिष्यामि सर्वसैन्यानि केशव 040a
त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् 040c
सञ्जय उवाच 041
सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः 041a
गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः 041c
तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः 042a
इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् 042c
तमेकं रथवंशेन महता पर्यवारयन् 043a
विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् 043c
अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् 044a
छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् 044c
अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् 045a
रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः 045c
तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत 046a
यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् 046c
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः 047a
इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् 047c
तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते 048a
सङ्घर्षेण महार्चिष्मान्पावकः समजायत 048c
तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः 049a
हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शनैः 049c
संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे 050a
एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत 050c
शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् 051a
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् 051c
असङ्ख्येयमपारं च रजोऽऽभीलमतीव च 052a
उष्णीषकमठच्छन्नं पताकाफेनमालिनम् 052c
रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् 053a
वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् 053c
ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम् 054a
असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् 054c
उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन 055a
परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् 055c
इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् 056a
अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् 056c
शरवंशं शरस्थूणं शराच्छादनमद्भुतम् 057a
शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् 057c
ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् 058a
शरवेश्मनि पार्थेन कृते तस्मिन्महारणे 058c