धृतराष्ट्र उवाच 001
बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते 001a
तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय 001c
अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः 002a
नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि 002c
सञ्जय उवाच 003
सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः 003a
तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् 003c
संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् 004a
नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः 004c
उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः 005a
रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् 005c
शरपातमहावर्षं रथघोषबलाहकम् 006a
कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् 006c
शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् 007a
द्रोणमेघमनावार्यं हयमारुतचोदितम् 007c
दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः 008a
उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः 008c
एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् 009a
आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् 009c
शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् 010a
आचार्यं राजपुत्राणां सततं शूरमानिनम् 010c
ततो रजतसङ्काशा माधवस्य हयोत्तमाः 011a
द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः 011c
इषुजालावृतं घोरमन्धकारमनन्तरम् 012a
अनाधृष्यमिवान्येषां शूराणामभवत्तदा 012c
ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा 013a
नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः 013c
इषूणां सन्निपातेन शब्दो धाराभिघातजः 014a
शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः 014c
नाराचैरतिविद्धानां शराणां रूपमाबभौ 015a
आशीविषविदष्टानां सर्पाणामिव भारत 015c
तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः 016a
अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव 016c
उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी 017a
रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा 017c
निर्मलानामजिह्मानां नाराचानां विशां पते 018a
निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः 018c
उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ 019a
उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ 019c
स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ 020a
अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः 020c
गर्जितोत्क्रुष्टसन्नादाः शङ्खदुन्दुभिनिस्वनाः 021a
उपारमन्महाराज व्याजहार न कश्चन 021c
तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन् 022a
ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः 022c
रथिनो हस्तियन्तारो हयारोहाः पदातयः 023a
अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ 023c
हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् 024a
तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः 024c
मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः 025a
ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः 025c
वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः 026a
विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः 026c
जातरूपमयीभिश्च राजतीभिश्च मूर्धसु 027a
गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत 027c
सबलाकाः सखद्योताः सैरावतशतह्रदाः 028a
अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः 028c
अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः 029a
तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः 029c
विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः 030a
सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः 030c
गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः 031a
विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः 031c
हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ 032a
अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी 032c
ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे 033a
पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते 033c
निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः 034a
सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः 034c
ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत 035a
सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः 035c
ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् 036a
युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् 036c
एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये 037a
भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे 037c
तं चास्य मनसा द्रोणः पूजयामास विक्रमम् 038a
लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः 038c
तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः 039a
न तामालक्षयामासुर्लघुतां शीघ्रकारिणः 039c
देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते 040a
सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् 040c
ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः 041a
अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत 041c
तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः 042a
जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् 042c
तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे 043a
युक्तं योगेन योगज्ञास्तावकाः समपूजयन् 043c
यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः 044a
तमाचार्योऽप्यसम्भ्रान्तोऽयोधयच्छत्रुतापनः 044c
ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः 045a
वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् 045c
तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः 046a
अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् 046c
हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ 047a
न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि 047c
अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते 048a
न तावदभिषज्येते व्यावर्तदथ भास्करः 048c
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः 049a
नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् 049c
धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः 050a
मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा 050c
दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः 051a
द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् 051c
ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् 052a
रजसा संवृते लोके शरजालसमावृते 052c
सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन 053a
सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत 053c