सञ्जय उवाच 001
तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे 001a
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् 001c
जलसन्धं महाबाहुर्भीमसेनो न्यवारयत् 002a
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे 002c
किरन्तं शरवर्षाणि रोचमान इवांशुमान् 003a
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे 003c
ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् 004a
कुरूणां सोमकानां च सङ्क्रुद्धानां परस्परम् 004c
सङ्क्षये तु तथा भूते वर्तमाने महाभये 005a
द्वन्द्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् 005c
द्रोणः पाञ्चालपुत्रेण बली बलवता सह 006a
विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् 006c
पुण्डरीकवनानीव विध्वस्तानि समन्ततः 007a
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः 007c
विनिकीर्णानि वीराणामनीकेषु समन्ततः 008a
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च 008c
तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च 009a
संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः 009c
कुञ्जराश्वनरान्सङ्ख्ये पातयन्तः पतत्रिभिः 010a
तालमात्राणि चापानि विकर्षन्तो महारथाः 010c
असिचर्माणि चापानि शिरांसि कवचानि च 011a
विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् 011c
उत्थितान्यगणेयानि कबन्धानि समन्ततः 012a
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले 012c
गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा 013a
बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष 013c
भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् 014a
विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप 014c
आकर्षन्तः शरीराणि शरीरावयवांस्तथा 015a
नराश्वगजसङ्घानां शिरांसि च ततस्ततः 015c
कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः 016a
रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा 016c
असिमार्गान्बहुविधान्विचेरुस्तावका रणे 017a
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः 017c
गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि 018a
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः 018c
रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः 019a
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः 019c
क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः 020a
उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे 020c
वर्तमाने तथा युद्धे निर्मर्यादे विशां पते 021a
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् 021c
ते हया साध्वशोभन्त विमिश्रा वातरंहसः 022a
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे 022c
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः 022e
धृष्टद्युम्नश्च सम्प्रेक्ष्य द्रोणमभ्याशमागतम् 023a
असिचर्माददे वीरो धनुरुत्सृज्य भारत 023c
चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा 024a
ईषया समतिक्रम्य द्रोणस्य रथमाविशत् 024c
अतिष्ठद्युगमध्ये स युगसन्नहनेषु च 025a
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् 025c
खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः 026a
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् 026c
यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः 027a
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः 027c
ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् 028a
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः 028c
हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली 029a
ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी 029c
अथास्मै त्वरितो बाणमपरं जीवितान्तकम् 030a
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा 030c
तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः 031a
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् 031c
सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष 032a
द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः 032c
सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे 033a
शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् 033c
ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् 034a
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे 034c
ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः 035a
सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् 035c