सञ्जय उवाच 001
राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम 001a
कुरूणां पाण्डवानां च यथा युद्धमवर्तत 001c
भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् 002a
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः 002c
रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः 003a
अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः 003c
विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः 004a
आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ 004c
विराटश्च महाराज तावुभौ समरे स्थितौ 005a
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ 005c
तेषां युद्धं समभवद्दारुणं शोणितोदकम् 006a
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने 006c
बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः 007a
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः 007c
बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः 008a
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः 008c
तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् 009a
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् 009c
ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा 010a
अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन 010c
शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् 011a
ससैन्यो योधयामास गजः प्रतिगजं यथा 011c
बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् 012a
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे 012c
अयोधयंस्ते च भृशं तं शरौघैः समन्ततः 013a
इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर 013c
वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव 014a
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः 014c
सोऽतिविद्धो बलवता महेष्वासेन धन्विना 015a
ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः 015c
समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् 016a
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः 016c
तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ 017a
रेजतुः समरे राजन्पुष्पिताविव किंशुकौ 017c
अलम्बुसस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः 018a
अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः 018c
कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः 019a
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव 019c
ततस्तौ समरे शूरौ योधयन्तौ परस्परम् 020a
ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा 020c
शकुनिं रभसं युद्धे कृतवैरं च भारत 021a
माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे 021c
तन्मूलः स महाराज प्रावर्तत जनक्षयः 022a
त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः 022c
उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः 023a
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः 023c
शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः 024a
नाभ्यजानत कर्तव्यं युधि किञ्चित्पराक्रमम् 024c
विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ 025a
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् 025c
स वध्यमानो बहुभिः शरैः सन्नतपर्वभिः 026a
सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः 026c
घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् 027a
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् 027c
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् 028a
यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे 028c
ततो युधिष्ठिरो राजा मद्रराजानमाहवे 029a
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः 029c
ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप 030a
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः 030c
विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः 031a
अयोधयन्भीमसेनं महत्या सेनया वृताः 031c