सञ्जय उवाच 001
प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा 001a
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे 001c
जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च 002a
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत 002c
तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् 003a
पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम् 003c
राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम् 004a
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते 004c
धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः 005a
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन् 005c
वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम् 006a
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः 006c
महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये 007a
सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते 007c
समेत्य तु महासेने चक्रतुर्वेगमुत्तमम् 008a
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके 008c
नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः 009a
गदाविद्युन्महारौद्रः सङ्ग्रामजलदो महान् 009c
भारद्वाजानिलोद्धूतः शरधारासहस्रवान् 010a
अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम् 010c
समुद्रमिव घर्मान्ते विवान्घोरो महानिलः 011a
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः 011c
तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन् 012a
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव 012c
वारयामास तान्द्रोणो जलौघानचलो यथा 013a
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान् 013c
अथापरेऽपि राजानः परावृत्य समन्ततः 014a
महाबला रणे शूराः पाञ्चालानन्ववारयन् 014c
ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह 015a
सञ्जघानासकृद्द्रोणं बिभित्सुररिवाहिनीम् 015c
यथैव शरवर्षाणि द्रोणो वर्षति पार्षते 016a
तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत 016c
सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः 017a
ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः 017c
शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम् 018a
निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम् 018c
यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम् 019a
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः 019c
तथा तु यतमानस्य द्रोणस्य युधि भारत 020a
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत 020c
भोजमेके न्यवर्तन्त जलसन्धमथापरे 021a
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन् 021c
सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः 022a
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः 022c
धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः 023a
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव 023c
कालः सङ्ग्रसते योधान्धृष्टद्युम्नेन मोहितान् 024a
सङ्ग्रामे तुमुले तस्मिन्निति सम्मेनिरे जनाः 024c
कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः 025a
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी 025c
अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च 026a
चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा 026c
त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः 027a
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः 027c
मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः 028a
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः 028c
रथं नागं हयं चापि पत्तिनश्च विशां पते 029a
एकैकेनेषुणा सङ्ख्ये निर्बिभेद महारथः 029c
पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत 030a
दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान् 030c
तत्पच्यमानमर्केण द्रोणसायकतापितम् 031a
बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत 031c
तथैव पार्षतेनापि काल्यमानं बलं तव 032a
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना 032c
वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः 033a
त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः 033c
तावकानां परेषां च युध्यतां भरतर्षभ 034a
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात् 034c
भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन् 035a
विविंशतिश्चित्रसेनो विकर्णश्च महारथः 035c
विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान् 036a
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः 036c
बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः 037a
सहसेनः सहामात्यो द्रौपदेयानवारयत् 037c
शैब्यो गोवासनो राजा योधैर्दशशतावरैः 038a
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत् 038c
अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम् 039a
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत् 039c
दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः 040a
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि 040c
स्वकेनाहमनीकेन सन्नद्धकवचावृतः 041a
चतुःशतैर्महेष्वासैश्चेकितानमवारयम् 041c
शकुनिस्तु सहानीको माद्रीपुत्रमवारयत् 042a
गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः 042c
विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम् 043a
प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि 043c
शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम् 044a
बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत् 044c
धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः 045a
आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत् 045c
घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम् 046a
अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे 046c
अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः 047a
सैन्येन महता युक्तः क्रुद्धरूपमवारयत् 047c
सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत 048a
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः 048c
तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ 049a
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः 049c
पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः 050a
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः 050c
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः 051a
सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा 051c