सञ्जय उवाच 001
ततः प्रविष्टे कौन्तेये सिन्धुराजजिघांसया 001a
द्रोणानीकं विनिर्भिद्य भोजानीकं च दुस्तरम् 001c
काम्बोजस्य च दायादे हते राजन्सुदक्षिणे 002a
श्रुतायुधे च विक्रान्ते निहते सव्यसाचिना 002c
विप्रद्रुतेष्वनीकेषु विध्वस्तेषु समन्ततः 003a
प्रभग्नं स्वबलं दृष्ट्वा पुत्रस्ते द्रोणमभ्ययात् 003c
त्वरन्नेकरथेनैव समेत्य द्रोणमब्रवीत् 004a
गतः स पुरुषव्याघ्रः प्रमथ्येमां महाचमूम् 004c
अत्र बुद्ध्या समीक्षस्व किं नु कार्यमनन्तरम् 005a
अर्जुनस्य विघाताय दारुणेऽस्मिञ्जनक्षये 005c
यथा स पुरुषव्याघ्रो न हन्येत जयद्रथः 006a
तथा विधत्स्व भद्रं ते त्वं हि नः परमा गतिः 006c
असौ धनञ्जयाग्निर्हि कोपमारुतचोदितः 007a
सेनाकक्षं दहति मे वह्निः कक्षमिवोत्थितः 007c
अतिक्रान्ते हि कौन्तेये भित्त्वा सैन्यं परन्तप 008a
जयद्रथस्य गोप्तारः संशयं परमं गताः 008c
स्थिरा बुद्धिर्नरेन्द्राणामासीद्ब्रह्मविदां वर 009a
नातिक्रमिष्यति द्रोणं जातु जीवन्धनञ्जयः 009c
सोऽसौ पार्थो व्यतिक्रान्तो मिषतस्ते महाद्युते 010a
सर्वं ह्यद्यातुरं मन्ये नैतदस्ति बलं मम 010c
जानामि त्वां महाभाग पाण्डवानां हिते रतम् 011a
तथा मुह्यामि च ब्रह्मन्कार्यवत्तां विचिन्तयन् 011c
यथाशक्ति च ते ब्रह्मन्वर्तये वृत्तिमुत्तमाम् 012a
प्रीणामि च यथाशक्ति तच्च त्वं नावबुध्यसे 012c
अस्मान्न त्वं सदा भक्तानिच्छस्यमितविक्रम 013a
पाण्डवान्सततं प्रीणास्यस्माकं विप्रिये रतान् 013c
अस्मानेवोपजीवंस्त्वमस्माकं विप्रिये रतः 014a
न ह्यहं त्वां विजानामि मधुदिग्धमिव क्षुरम् 014c
नादास्यच्चेद्वरं मह्यं भवान्पाण्डवनिग्रहे 015a
नावारयिष्यं गच्छन्तमहं सिन्धुपतिं गृहान् 015c
मया त्वाशंसमानेन त्वत्तस्त्राणमबुद्धिना 016a
आश्वासितः सिन्धुपतिर्मोहाद्दत्तश्च मृत्यवे 016c
यमदंष्ट्रान्तरं प्राप्तो मुच्येतापि हि मानवः 017a
नार्जुनस्य वशं प्राप्तो मुच्येताजौ जयद्रथः 017c
स तथा कुरु शोणाश्व यथा रक्ष्येत सैन्धवः 018a
मम चार्तप्रलापानां मा क्रुधः पाहि सैन्धवम् 018c
द्रोण उवाच 019
नाभ्यसूयामि ते वाचमश्वत्थाम्नासि मे समः 019a
सत्यं तु ते प्रवक्ष्यामि तज्जुषस्व विशां पते 019c
सारथिः प्रवरः कृष्णः शीघ्राश्चास्य हयोत्तमाः 020a
अल्पं च विवरं कृत्वा तूर्णं याति धनञ्जयः 020c
किं नु पश्यसि बाणौघान्क्रोशमात्रे किरीटिनः 021a
पश्चाद्रथस्य पतितान्क्षिप्ताञ्शीघ्रं हि गच्छतः 021c
न चाहं शीघ्रयानेऽद्य समर्थो वयसान्वितः 022a
सेनामुखे च पार्थानामेतद्बलमुपस्थितम् 022c
युधिष्ठिरश्च मे ग्राह्यो मिषतां सर्वधन्विनाम् 023a
एवं मया प्रतिज्ञातं क्षत्रमध्ये महाभुज 023c
धनञ्जयेन चोत्सृष्टो वर्तते प्रमुखे मम 024a
तस्माद्व्यूहमुखं हित्वा नाहं यास्यामि फल्गुनम् 024c
तुल्याभिजनकर्माणं शत्रुमेकं सहायवान् 025a
गत्वा योधय मा भैस्त्वं त्वं ह्यस्य जगतः पतिः 025c
राजा शूरः कृती दक्षो वैरमुत्पाद्य पाण्डवैः 026a
वीर स्वयं प्रयाह्याशु यत्र यातो धनञ्जयः 026c
दुर्योधन उवाच 027
कथं त्वामप्यतिक्रान्तः सर्वशस्त्रभृतां वरः 027a
धनञ्जयो मया शक्य आचार्य प्रतिबाधितुम् 027c
अपि शक्यो रणे जेतुं वज्रहस्तः पुरन्दरः 028a
नार्जुनः समरे शक्यो जेतुं परपुरञ्जयः 028c
येन भोजश्च हार्दिक्यो भवांश्च त्रिदशोपमः 029a
अस्त्रप्रतापेन जितौ श्रुतायुश्च निबर्हितः 029c
सुदक्षिणश्च निहतः स च राजा श्रुतायुधः 030a
श्रुतायुश्चाच्युतायुश्च म्लेच्छाश्च शतशो हताः 030c
तं कथं पाण्डवं युद्धे दहन्तमहितान्बहून् 031a
प्रतियोत्स्यामि दुर्धर्षं तन्मे शंसास्त्रकोविद 031c
क्षमं चेन्मन्यसे युद्धं मम तेनाद्य शाधि माम् 032a
परवानस्मि भवति प्रेष्यकृद्रक्ष मे यशः 032c
द्रोण उवाच 033
सत्यं वदसि कौरव्य दुराधर्षो धनञ्जयः 033a
अहं तु तत्करिष्यामि यथैनं प्रसहिष्यसि 033c
अद्भुतं चाद्य पश्यन्तु लोके सर्वधनुर्धराः 034a
विषक्तं त्वयि कौन्तेयं वासुदेवस्य पश्यतः 034c
एष ते कवचं राजंस्तथा बध्नामि काञ्चनम् 035a
यथा न बाणा नास्त्राणि विषहिष्यन्ति ते रणे 035c
यदि त्वां सासुरसुराः सयक्षोरगराक्षसाः 036a
योधयन्ति त्रयो लोकाः सनरा नास्ति ते भयम् 036c
न कृष्णो न च कौन्तेयो न चान्यः शस्त्रभृद्रणे 037a
शरानर्पयितुं कश्चित्कवचे तव शक्ष्यति 037c
स त्वं कवचमास्थाय क्रुद्धमद्य रणेऽर्जुनम् 038a
त्वरमाणः स्वयं याहि न चासौ त्वां सहिष्यते 038c
सञ्जय उवाच 039
एवमुक्त्वा त्वरन्द्रोणः स्पृष्ट्वाम्भो वर्म भास्वरम् 039a
आबबन्धाद्भुततमं जपन्मन्त्रं यथाविधि 039c
रणे तस्मिन्सुमहति विजयाय सुतस्य ते 040a
विसिस्मापयिषुर्लोकं विद्यया ब्रह्मवित्तमः 040c
द्रोण उवाच 041
करोतु स्वस्ति ते ब्रह्मा स्वस्ति चापि द्विजातयः 041a
सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति भारत 041c
ययातिर्नहुषश्चैव धुन्धुमारो भगीरथः 042a
तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वन्तु सर्वशः 042c
स्वस्ति तेऽस्त्वेकपादेभ्यो बहुपादेभ्य एव च 043a
स्वस्त्यस्त्वपादकेभ्यश्च नित्यं तव महारणे 043c
स्वाहा स्वधा शची चैव स्वस्ति कुर्वन्तु ते सदा 044a
लक्ष्मीररुन्धती चैव कुरुतां स्वस्ति तेऽनघ 044c
असितो देवलश्चैव विश्वामित्रस्तथाङ्गिराः 045a
वसिष्ठः कश्यपश्चैव स्वस्ति कुर्वन्तु ते नृप 045c
धाता विधाता लोकेशो दिशश्च सदिगीश्वराः 046a
स्वस्ति तेऽद्य प्रयच्छन्तु कार्त्तिकेयश्च षण्मुखः 046c
विवस्वान्भगवान्स्वस्ति करोतु तव सर्वशः 047a
दिग्गजाश्चैव चत्वारः क्षितिः खं गगनं ग्रहाः 047c
अधस्ताद्धरणीं योऽसौ सदा धारयते नृप 048a
स शेषः पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु 048c
गान्धारे युधि विक्रम्य निर्जिताः सुरसत्तमाः 049a
पुरा वृत्रेण दैत्येन भिन्नदेहाः सहस्रशः 049c
हृततेजोबलाः सर्वे तदा सेन्द्रा दिवौकसः 050a
ब्रह्माणं शरणं जग्मुर्वृत्राद्भीता महासुरात् 050c
देवा ऊचुः 051
प्रमर्दितानां वृत्रेण देवानां देवसत्तम 051a
गतिर्भव सुरश्रेष्ठ त्राहि नो महतो भयात् 051c
द्रोण उवाच 052
अथ पार्श्वे स्थितं विष्णुं शक्रादींश्च सुरोत्तमान् 052a
प्राह तथ्यमिदं वाक्यं विषण्णान्सुरसत्तमान् 052c
रक्ष्या मे सततं देवाः सहेन्द्राः सद्विजातयः 053a
त्वष्टुः सुदुर्धरं तेजो येन वृत्रो विनिर्मितः 053c
त्वष्ट्रा पुरा तपस्तप्त्वा वर्षायुतशतं तदा 054a
वृत्रो विनिर्मितो देवाः प्राप्यानुज्ञां महेश्वरात् 054c
स तस्यैव प्रसादाद्वै हन्यादेव रिपुर्बली 055a
नागत्वा शङ्करस्थानं भगवान्दृश्यते हरः 055c
दृष्ट्वा हनिष्यथ रिपुं क्षिप्रं गच्छत मन्दरम् 056a
यत्रास्ते तपसां योनिर्दक्षयज्ञविनाशनः 056c
पिनाकी सर्वभूतेशो भगनेत्रनिपातनः 056e
ते गत्वा सहिता देवा ब्रह्मणा सह मन्दरम् 057a
अपश्यंस्तेजसां राशिं सूर्यकोटिसमप्रभम् 057c
सोऽब्रवीत्स्वागतं देवा ब्रूत किं करवाण्यहम् 058a
अमोघं दर्शनं मह्यं कामप्राप्तिरतोऽस्तु वः 058c
एवमुक्तास्तु ते सर्वे प्रत्यूचुस्तं दिवौकसः 059a
तेजो हृतं नो वृत्रेण गतिर्भव दिवौकसाम् 059c
मूर्तीरीक्षष्व नो देव प्रहारैर्जर्जरीकृताः 060a
शरणं त्वां प्रपन्नाः स्म गतिर्भव महेश्वर 060c
महेश्वर उवाच 061
विदितं मे यथा देवाः कृत्येयं सुमहाबला 061a
त्वष्टुस्तेजोभवा घोरा दुर्निवार्याकृतात्मभिः 061c
अवश्यं तु मया कार्यं साह्यं सर्वदिवौकसाम् 062a
ममेदं गात्रजं शक्र कवचं गृह्य भास्वरम् 062c
बधानानेन मन्त्रेण मानसेन सुरेश्वर 062e
द्रोण उवाच 063
इत्युक्त्वा वरदः प्रादाद्वर्म तन्मन्त्रमेव च 063a
स तेन वर्मणा गुप्तः प्रायाद्वृत्रचमूं प्रति 063c
नानाविधैश्च शस्त्रौघैः पात्यमानैर्महारणे 064a
न सन्धिः शक्यते भेत्तुं वर्मबन्धस्य तस्य तु 064c
ततो जघान समरे वृत्रं देवपतिः स्वयम् 065a
तं च मत्रमयं बन्धं वर्म चाङ्गिरसे ददौ 065c
अङ्गिराः प्राह पुत्रस्य मन्त्रज्ञस्य बृहस्पतेः 066a
बृहस्पतिरथोवाच अग्निवेश्याय धीमते 066c
अग्निवेश्यो मम प्रादात्तेन बध्नामि वर्म ते 067a
तवाद्य देहरक्षार्थं मन्त्रेण नृपसत्तम 067c
सञ्जय उवाच 068
एवमुक्त्वा ततो द्रोणस्तव पुत्रं महाद्युतिः 068a
पुनरेव वचः प्राह शनैराचार्यपुङ्गवः 068c
ब्रह्मसूत्रेण बध्नामि कवचं तव पार्थिव 069a
हिरण्यगर्भेण यथा बद्धं विष्णोः पुरा रणे 069c
यथा च ब्रह्मणा बद्धं सङ्ग्रामे तारकामये 070a
शक्रस्य कवचं दिव्यं तथा बध्नाम्यहं तव 070c
बद्ध्वा तु कवचं तस्य मन्त्रेण विधिपूर्वकम् 071a
प्रेषयामास राजानं युद्धाय महते द्विजः 071c
स सन्नद्धो महाबाहुराचार्येण महात्मना 072a
रथानां च सहस्रेण त्रिगर्तानां प्रहारिणाम् 072c
तथा दन्तिसहस्रेण मत्तानां वीर्यशालिनाम् 073a
अश्वानामयुतेनैव तथान्यैश्च महारथैः 073c
वृतः प्रायान्महाबाहुरर्जुनस्य रथं प्रति 074a
नानावादित्रघोषेण यथा वैरोचनिस्तथा 074c
ततः शब्दो महानासीत्सैन्यानां तव भारत 075a
अगाधं प्रस्थितं दृष्ट्वा समुद्रमिव कौरवम् 075c