सञ्जय उवाच 001
हते सुदक्षिणे राजन्वीरे चैव श्रुतायुधे 001a
जवेनाभ्यद्रवन्पार्थं कुपिताः सैनिकास्तव 001c
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 002a
अभ्यवर्षंस्ततो राजञ्शरवर्षैर्धनञ्जयम् 002c
तेषां षष्टिशतानार्यान्प्रामथ्नात्पाण्डवः शरैः 003a
ते स्म भीताः पलायन्त व्याघ्रात्क्षुद्रमृगा इव 003c
ते निवृत्य पुनः पार्थं सर्वतः पर्यवारयन् 004a
रणे सपत्नान्निघ्नन्तं जिगीषन्तन्परान्युधि 004c
तेषामापततां तूर्णं गाण्डीवप्रेषितैः शरैः 005a
शिरांसि पातयामास बाहूंश्चैव धनञ्जयः 005c
शिरोभिः पतितैस्तत्र भूमिरासीन्निरन्तरा 006a
अभ्रच्छायेव चैवासीद्ध्वाङ्क्षगृध्रवडैर्युधि 006c
तेषु तूत्साद्यमानेषु क्रोधामर्षसमन्वितौ 007a
श्रुतायुश्चाच्युतायुश्च धनञ्जयमयुध्यताम् 007c
बलिनौ स्पर्धिनौ वीरौ कुलजौ बाहुशालिनौ 008a
तावेनं शरवर्षाणि सव्यदक्षिणमस्यताम् 008c
त्वरायुक्तौ महाराज प्रार्थयानौ महद्यशः 009a
अर्जुनस्य वधप्रेप्सू पुत्रार्थे तव धन्विनौ 009c
तावर्जुनं सहस्रेण पत्रिणां नतपर्वणाम् 010a
पूरयामासतुः क्रुद्धौ तडागं जलदौ यथा 010c
श्रुतायुश्च ततः क्रुद्धस्तोमरेण धनञ्जयम् 011a
आजघान रथश्रेष्ठः पीतेन निशितेन च 011c
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शनः 012a
आजगाम परं मोहं मोहयन्केशवं रणे 012c
एतस्मिन्नेव काले तु सोऽच्युतायुर्महारथः 013a
शूलेन भृशतीक्ष्णेन ताडयामास पाण्डवम् 013c
क्षते क्षारं स हि ददौ पाण्डवस्य महात्मनः 014a
पार्थोऽपि भृशसंविद्धो ध्वजयष्टिं समाश्रितः 014c
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते 015a
सिंहनादो महानासीद्धतं मत्वा धनञ्जयम् 015c
कृष्णश्च भृशसन्तप्तो दृष्ट्वा पार्थं विचेतसम् 016a
आश्वासयत्सुहृद्याभिर्वाग्भिस्तत्र धनञ्जयम् 016c
ततस्तौ रथिनां श्रेष्ठौ लब्धलक्षौ धनञ्जयम् 017a
वासुदेवं च वार्ष्णेयं शरवर्षैः समन्ततः 017c
सचक्रकूबररथं साश्वध्वजपताकिनम् 018a
अदृश्यं चक्रतुर्युद्धे तदद्भुतमिवाभवत् 018c
प्रत्याश्वस्तस्तु बीभत्सुः शनकैरिव भारत 019a
प्रेतराजपुरं प्राप्य पुनः प्रत्यागतो यथा 019c
सञ्छन्नं शरजालेन रथं दृष्ट्वा सकेशवम् 020a
शत्रू चाभिमुखौ दृष्ट्वा दीप्यमानाविवानलौ 020c
प्रादुश्चक्रे ततः पार्थः शाक्रमस्त्रं महारथः 021a
तस्मादासन्सहस्राणि शराणां नतपर्वणाम् 021c
ते जघ्नुस्तौ महेष्वासौ ताभ्यां सृष्टांश्च सायकान् 022a
विचेरुराकाशगताः पार्थबाणविदारिताः 022c
प्रतिहत्य शरांस्तूर्णं शरवेगेन पाण्डवः 023a
प्रतस्थे तत्र तत्रैव योधयन्वै महारथान् 023c
तौ च फल्गुनबाणौघैर्विबाहुशिरसौ कृतौ 024a
वसुधामन्वपद्येतां वातनुन्नाविव द्रुमौ 024c
श्रुतायुषश्च निधनं वधश्चैवाच्युतायुषः 025a
लोकविस्मापनमभूत्समुद्रस्येव शोषणम् 025c
तयोः पदानुगान्हत्वा पुनः पञ्चशतान्रथान् 026a
अभ्यगाद्भारतीं सेनां निघ्नन्पार्थो वरान्वरान् 026c
श्रुतायुषं च निहतं प्रेक्ष्य चैवाच्युतायुषम् 027a
अयुतायुश्च सङ्क्रुद्धो दीर्घायुश्चैव भारत 027c
पुत्रौ तयोर्नरश्रेष्ठौ कौन्तेयं प्रतिजग्मतुः 028a
किरन्तौ विविधान्बाणान्पितृव्यसनकर्शितौ 028c
तावर्जुनो मुहूर्तेन शरैः सन्नतपर्वभिः 029a
प्रेषयत्परमक्रुद्धो यमस्य सदनं प्रति 029c
लोडयन्तमनीकानि द्विपं पद्मसरो यथा 030a
नाशक्नुवन्वारयितुं पार्थं क्षत्रियपुङ्गवाः 030c
अङ्गास्तु गजवारेण पाण्डवं पर्यवारयन् 031a
क्रुद्धाः सहस्रशो राजञ्शिक्षिता हस्तिसादिनः 031c
दुर्योधनसमादिष्टाः कुञ्जरैः पर्वतोपमैः 032a
प्राच्याश्च दाक्षिणात्याश्च कलिङ्गप्रमुखा नृपाः 032c
तेषामापततां शीघ्रं गाण्डीवप्रेषितैः शरैः 033a
निचकर्त शिरांस्युग्रौ बाहूनपि सुभूषणान् 033c
तैः शिरोभिर्मही कीर्णा बाहुभिश्च सहाङ्गदैः 034a
बभौ कनकपाषाणा भुजगैरिव संवृता 034c
बाहवो विशिखैश्छिन्नाः शिरांस्युन्मथितानि च 035a
च्यवमानान्यदृश्यन्त द्रुमेभ्य इव पक्षिणः 035c
शरैः सहस्रशो विद्धा द्विपाः प्रस्रुतशोणिताः 036a
व्यदृश्यन्ताद्रयः काले गैरिकाम्बुस्रवा इव 036c
निहताः शेरते स्मान्ये बीभत्सोर्निशितैः शरैः 037a
गजपृष्ठगता म्लेच्छा नानाविकृतदर्शनाः 037c
नानावेषधरा राजन्नानाशस्त्रौघसंवृताः 038a
रुधिरेणानुलिप्ताङ्गा भान्ति चित्रैः शरैर्हताः 038c
शोणितं निर्वमन्ति स्म द्विपाः पार्थशराहताः 039a
सहस्रशश्छिन्नगात्राः सारोहाः सपदानुगाः 039c
चुक्रुशुश्च निपेतुश्च बभ्रमुश्चापरे दिशः 040a
भृशं त्रस्ताश्च बहुधा स्वानेन ममृदुर्गजाः 040c
सान्तरायुधिका मत्ता द्विपास्तीक्ष्णविषोपमाः 040e
विदन्त्यसुरमायां ये सुघोरा घोरचक्षुषः 041a
यवनाः पारदाश्चैव शकाश्च सुनिकैः सह 041c
गोयोनिप्रभवा म्लेच्छाः कालकल्पाः प्रहारिणः 042a
दार्वाभिसारा दरदाः पुण्ड्राश्च सह बाह्लिकैः 042c
न ते स्म शक्याः सङ्ख्यातुं व्राताः शतसहस्रशः 043a
वृष्टिस्तथाविधा ह्यासीच्छलभानामिवायतिः 043c
अभ्रच्छायामिव शरैः सैन्ये कृत्वा धनञ्जयः 044a
मुण्डार्धमुण्डजटिलानशुचीञ्जटिलाननान् 044c
म्लेच्छानशातयत्सर्वान्समेतानस्त्रमायया 044e
शरैश्च शतशो विद्धास्ते सङ्घाः सङ्घचारिणः 045a
प्राद्रवन्त रणे भीता गिरिगह्वरवासिनः 045c
गजाश्वसादिम्लेच्छानां पतितानां शतैः शरैः 046a
वडाः कङ्का वृका भूमावपिबन्रुधिरं मुदा 046c
पत्त्यश्वरथनागैश्च प्रच्छन्नकृतसङ्क्रमाम् 047a
शरवर्षप्लवां घोरां केशशैवलशाड्वलाम् 047c
प्रावर्तयन्नदीमुग्रां शोणितौघतरङ्गिणीम् 047e
शिरस्त्राणक्षुद्रमत्स्यां युगान्ते कालसम्भृताम् 048a
अकरोद्गजसम्बाधां नदीमुत्तरशोणिताम् 048c
देहेभ्यो राजपुत्राणां नागाश्वरथसादिनाम् 048e
यथा स्थलं च निम्नं च न स्याद्वर्षति वासवे 049a
तथासीत्पृथिवी सर्वा शोणितेन परिप्लुता 049c
षट्सहस्रान्वरान्वीरान्पुनर्दशशतान्वरान् 050a
प्राहिणोन्मृत्युलोकाय क्षत्रियान्क्षत्रियर्षभः 050c
शरैः सहस्रशो विद्धा विधिवत्कल्पिता द्विपाः 051a
शेरते भूमिमासाद्य शैला वज्रहता इव 051c
स वाजिरथमातङ्गान्निघ्नन्व्यचरदर्जुनः 052a
प्रभिन्न इव मातङ्गो मृद्नन्नडवनं यथा 052c
भूरिद्रुमलतागुल्मं शुष्केन्धनतृणोलपम् 053a
निर्दहेदनलोऽरण्यं यथा वायुसमीरितः 053c
सैन्यारण्यं तव तथा कृष्णानिलसमीरितः 054a
शरार्चिरदहत्क्रुद्धः पाण्डवाग्निर्धनञ्जयः 054c
शून्यान्कुर्वन्रथोपस्थान्मानवैः संस्तरन्महीम् 055a
प्रानृत्यदिव सम्बाधे चापहस्तो धनञ्जयः 055c
वज्रकल्पैः शरैर्भूमिं कुर्वन्नुत्तरशोणिताम् 056a
प्राविशद्भारतीं सेनां सङ्क्रुद्धो वै धनञ्जयः 056c
तं श्रुतायुस्तथाम्बष्ठो व्रजमानं न्यवारयत् 056e
तस्यार्जुनः शरैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः 057a
न्यपातयद्धयाञ्शीघ्रं यतमानस्य मारिष 057c
धनुश्चास्यापरैश्छित्त्वा शरैः पार्थो विचक्रमे 057e
अम्बष्ठस्तु गदां गृह्य क्रोधपर्याकुलेक्षणः 058a
आससाद रणे पार्थं केशवं च महारथम् 058c
ततः स प्रहसन्वीरो गदामुद्यम्य भारत 059a
रथमावार्य गदया केशवं समताडयत् 059c
गदया ताडितं दृष्ट्वा केशवं परवीरहा 060a
अर्जुनो भृशसङ्क्रुद्धः सोऽम्बष्ठं प्रति भारत 060c
ततः शरैर्हेमपुङ्खैः सगदं रथिनां वरम् 061a
छादयामास समरे मेघः सूर्यमिवोदितम् 061c
ततोऽपरैः शरैश्चापि गदां तस्य महात्मनः 062a
अचूर्णयत्तदा पार्थस्तदद्भुतमिवाभवत् 062c
अथ तां पतितां दृष्ट्वा गृह्यान्यां महतीं गदाम् 063a
अर्जुनं वासुदेवं च पुनः पुनरताडयत् 063c
तस्यार्जुनः क्षुरप्राभ्यां सगदावुद्यतौ भुजौ 064a
चिच्छेदेन्द्रध्वजाकारौ शिरश्चान्येन पत्रिणा 064c
स पपात हतो राजन्वसुधामनुनादयन् 065a
इन्द्रध्वज इवोत्सृष्टो यन्त्रनिर्मुक्तबन्धनः 065c
रथानीकावगाढश्च वारणाश्वशतैर्वृतः 066a
सोऽदृश्यत तदा पार्थो घनैः सूर्य इवावृतः 066c