सञ्जय उवाच 001
सन्निरुद्धस्तु तैः पार्थो महाबलपराक्रमः 001a
द्रुतं समनुयातश्च द्रोणेन रथिनां वरः 001c
किरन्निषुगणांस्तिक्ष्णान्स्वरश्मीनिव भास्करः 002a
तापयामास तत्सैन्यं देहं व्याधिगणो यथा 002c
अश्वो विद्धो ध्वजश्छिन्नः सारोहः पतितो गजः 003a
छत्राणि चापविद्धानि रथाश्चक्रैर्विना कृताः 003c
विद्रुतानि च सैन्यानि शरार्तानि समन्ततः 004a
इत्यासीत्तुमुलं युद्धं न प्राज्ञायत किञ्चन 004c
तेषामायच्छतां सङ्ख्ये परस्परमजिह्मगैः 005a
अर्जुनो ध्वजिनीं राजन्नभीक्ष्णं समकम्पयत् 005c
सत्यां चिकीर्षमाणस्तु प्रतिज्ञां सत्यसङ्गरः 006a
अभ्यद्रवद्रथश्रेष्ठं शोणाश्वं श्वेतवाहनः 006c
तं द्रोणः पञ्चविंशत्या मर्मभिद्भिरजिह्मगैः 007a
अन्तेवासिनमाचार्यो महेष्वासं समर्दयत् 007c
तं तूर्णमिव बीभत्सुः सर्वशस्त्रभृतां वरः 008a
अभ्यधावदिषूनस्यन्निषुवेगविघातकान् 008c
तस्याशु क्षिपतो भल्लान्भल्लैः सन्नतपर्वभिः 009a
प्रत्यविध्यदमेयात्मा ब्रह्मास्त्रं समुदीरयन् 009c
तदद्भुतमपश्याम द्रोणस्याचार्यकं युधि 010a
यतमानो युवा नैनं प्रत्यविध्यद्यदर्जुनः 010c
क्षरन्निव महामेघो वारिधाराः सहस्रशः 011a
द्रोणमेघः पार्थशैलं ववर्ष शरवृष्टिभिः 011c
अर्जुनः शरवर्षं तद्ब्रह्मास्त्रेणैव मारिष 012a
प्रतिजग्राह तेजस्वी बाणैर्बाणान्विशातयन् 012c
द्रोणस्तु पञ्चविंशत्या श्वेतवाहनमार्दयत् 013a
वासुदेवं च सप्तत्या बाह्वोरुरसि चाशुगैः 013c
पार्थस्तु प्रहसन्धीमानाचार्यं स शरौघिणम् 014a
विसृजन्तं शितान्बाणानवारयत तं युधि 014c
अथ तौ वध्यमानौ तु द्रोणेन रथसत्तमौ 015a
आवर्जयेतां दुर्धर्षं युगान्ताग्निमिवोत्थितम् 015c
वर्जयन्निशितान्बाणान्द्रोणचापविनिःसृतान् 016a
किरीटमाली कौन्तेयो भोजानीकं न्यपातयत् 016c
सोऽन्तरा कृतवर्माणं काम्बोजं च सुदक्षिणम् 017a
अभ्ययाद्वर्जयन्द्रोणं मैनाकमिव पर्वतम् 017c
ततो भोजो नरव्याघ्रं दुःसहः कुरुसत्तम 018a
अविध्यत्तूर्णमव्यग्रो दशभिः कङ्कपत्रिभिः 018c
तमर्जुनः शितेनाजौ राजन्विव्याध पत्रिणा 019a
पुनश्चान्यैस्त्रिभिर्बाणैर्मोहयन्निव सात्वतम् 019c
भोजस्तु प्रहसन्पार्थं वासुदेवं च माधवम् 020a
एकैकं पञ्चविंशत्या सायकानां समार्पयत् 020c
तस्यार्जुनो धनुश्छित्त्वा विव्याधैनं त्रिसप्तभिः 021a
शरैरग्निशिखाकारैः क्रुद्धाशीविषसन्निभैः 021c
अथान्यद्धनुरादाय कृतवर्मा महारथः 022a
पञ्चभिः सायकैस्तूर्णं विव्याधोरसि भारत 022c
पुनश्च निशितैर्बाणैः पार्थं विव्याध पञ्चभिः 023a
तं पार्थो नवभिर्बाणैराजघान स्तनान्तरे 023c
विषक्तं दृश्य कौन्तेयं कृतवर्मरथं प्रति 024a
चिन्तयामास वार्ष्णेयो न नः कालात्ययो भवेत् 024c
ततः कृष्णोऽब्रवीत्पार्थं कृतवर्मणि मा दयाम् 025a
कुरुसाम्बन्धिकं कृत्वा प्रमथ्यैनं विशातय 025c
ततः स कृतवर्माणं मोहयित्वार्जुनः शरैः 026a
अभ्यगाज्जवनैरश्वैः काम्बोजानामनीकिनीम् 026c
अमर्षितस्तु हार्दिख्यः प्रविष्टे श्वेतवाहने 027a
विधुन्वन्सशरं चापं पाञ्चाल्याभ्यां समागतः 027c
चक्ररक्षौ तु पाञ्चाल्यावर्जुनस्य पदानुगौ 028a
पर्यवारयदायान्तौ कृतवर्मा रथेषुभिः 028c
तावविध्यत्ततो भोजः सर्वपारशवैः शरैः 029a
त्रिभिरेव युधामन्युं चतुर्भिश्चोत्तमौजसम् 029c
तावप्येनं विव्यधतुर्दशभिर्दशभिः शरैः 030a
सञ्चिच्छिदतुरप्यस्य ध्वजं कार्मुकमेव च 030c
अथान्यद्धनुरादाय हार्दिक्यः क्रोधमूर्छितः 031a
कृत्वा विधनुषौ वीरौ शरवर्षैरवाकिरत् 031c
तावन्ये धनुषी सज्ये कृत्वा भोजं विजघ्नतुः 032a
तेनान्तरेण बीभत्सुर्विवेशामित्रवाहिनीम् 032c
न लेभाते तु तौ द्वारं वारितौ कृतवर्मणा 033a
धार्तराष्ट्रेष्वनीकेषु यतमानौ नरर्षभौ 033c
अनीकान्यर्दयन्युद्धे त्वरितः श्वेतवाहनः 034a
नावधीत्कृतवर्माणं प्राप्तमप्यरिसूदनः 034c
तं दृष्ट्वा तु तथायान्तं शूरो राजा श्रुतायुधः 035a
अभ्यद्रवत्सुसङ्क्रुद्धो विधुन्वानो महद्धनुः 035c
स पार्थं त्रिभिरानर्छत्सप्तत्या च जनार्दनम् 036a
क्षुरप्रेण सुतीक्ष्णेन पार्थकेतुमताडयत् 036c
तमर्जुनो नवत्या तु शराणां नतपर्वणाम् 037a
आजघान भृशं क्रुद्धस्तोत्त्रैरिव महाद्विपम् 037c
स तन्न ममृषे राजन्पाण्डवेयस्य विक्रमम् 038a
अथैनं सप्तसप्तत्या नाराचानां समार्पयत् 038c
तस्यार्जुनो धनुश्छित्त्वा शरावापं निकृत्य च 039a
आजघानोरसि क्रुद्धः सप्तभिर्नतपर्वभिः 039c
अथान्यद्धनुरादाय स राजा क्रोधमूर्छितः 040a
वासविं नवभिर्बाणैर्बाह्वोरुरसि चार्पयत् 040c
ततोऽर्जुनः स्मयन्नेव श्रुतायुधमरिन्दमः 041a
शरैरनेकसाहस्रैः पीडयामास भारत 041c
अश्वांश्चास्यावधीत्तूर्णं सारथिं च महारथः 042a
विव्याध चैनं सप्तत्या नाराचानां महाबलः 042c
हताश्वं रथमुत्सृज्य स तु राजा श्रुतायुधः 043a
अभ्यद्रवद्रणे पार्थं गदामुद्यम्य वीर्यवान् 043c
वरुणस्यात्मजो वीरः स तु राजा श्रुतायुधः 044a
पर्णाशा जननी यस्य शीततोया महानदी 044c
तस्य माताब्रवीद्वाक्यं वरुणं पुत्रकारणात् 045a
अवध्योऽयं भवेल्लोके शत्रूणां तनयो मम 045c
वरुणस्त्वब्रवीत्प्रीतो ददाम्यस्मै वरं हितम् 046a
दिव्यमस्त्रं सुतस्तेऽयं येनावध्यो भविष्यति 046c
नास्ति चाप्यमरत्वं वै मनुष्यस्य कथञ्चन 047a
सर्वेणावश्यमर्तव्यं जातेन सरितां वरे 047c
दुर्धर्षस्त्वेष शत्रूणां रणेषु भविता सदा 048a
अस्त्रस्यास्य प्रभावाद्वै व्येतु ते मानसो ज्वरः 048c
इत्युक्त्वा वरुणः प्रादाद्गदां मन्त्रपुरस्कृताम् 049a
यामासाद्य दुराधर्षः सर्वलोके श्रुतायुधः 049c
उवाच चैनं भगवान्पुनरेव जलेश्वरः 050a
अयुध्यति न मोक्तव्या सा त्वय्येव पतेदिति 050c
स तया वीरघातिन्या जनार्दनमताडयत् 051a
प्रतिजग्राह तां कृष्णः पीनेनांसेन वीर्यवान् 051c
नाकम्पयत शौरिं सा विन्ध्यं गिरिमिवानिलः 052a
प्रत्यभ्ययात्तं विप्रोढा कृत्येव दुरधिष्ठिता 052c
जघान चास्थितं वीरं श्रुतायुधममर्षणम् 053a
हत्वा श्रुतायुधं वीरं जगतीमन्वपद्यत 053c
हाहाकारो महांस्तत्र सैन्यानां समजायत 054a
स्वेनास्त्रेण हतं दृष्ट्वा श्रुतायुधमरिन्दमम् 054c
अयुध्यमानाय हि सा केशवाय नराधिप 055a
क्षिप्ता श्रुतायुधेनाथ तस्मात्तमवधीद्गदा 055c
यथोक्तं वरुणेनाजौ तथा स निधनं गतः 056a
व्यसुश्चाप्यपतद्भूमौ प्रेक्षतां सर्वधन्विनाम् 056c
पतमानस्तु स बभौ पर्णाशायाः प्रियः सुतः 057a
सम्भग्न इव वातेन बहुशाखो वनस्पतिः 057c
ततः सर्वाणि सैन्यानि सेनामुख्याश्च सर्वशः 058a
प्राद्रवन्त हतं दृष्ट्वा श्रुतायुधमरिन्दमम् 058c
तथ काम्बोजराजस्य पुत्रः शूरः सुदक्षिणः 059a
अभ्ययाज्जवनैरश्वैः फल्गुनं शत्रुसूदनम् 059c
तस्य पार्थः शरान्सप्त प्रेषयामास भारत 060a
ते तं शूरं विनिर्भिद्य प्राविशन्धरणीतलम् 060c
सोऽतिविद्धः शरैस्तीक्ष्णैर्गाण्डीवप्रेषितैर्मृधे 061a
अर्जुनं प्रतिविव्याध दशभिः कङ्कपत्रिभिः 061c
वासुदेवं त्रिभिर्विद्ध्वा पुनः पार्थं च पञ्चभिः 062a
तस्य पार्थो धनुश्छित्त्वा केतुं चिच्छेद मारिष 062c
भल्लाभ्यां भृशतीक्ष्णाभ्यां तं च विव्याध पाण्डवः 063a
स तु पार्थं त्रिभिर्विद्ध्वा सिंहनादमथानदत् 063c
सर्वपारशवीं चैव शक्तिं शूरः सुदक्षिणः 064a
सघण्टां प्राहिणोद्घोरां क्रुद्धो गाण्डीवधन्वने 064c
सा ज्वलन्ती महोल्केव तमासाद्य महारथम् 065a
सविस्फुलिङ्गा निर्भिद्य निपपात महीतले 065c
तं चतुर्दशभिः पार्थो नाराचैः कङ्कपत्रिभिः 066a
साश्वध्वजधनुःसूतं विव्याधाचिन्त्यविक्रमः 066c
रथं चान्यैः सुबहुभिश्चक्रे विशकलं शरैः 066e
सुदक्षिणं तु काम्बोजं मोघसङ्कल्पविक्रमम् 067a
बिभेद हृदि बाणेन पृथुधारेण पाण्डवः 067c
स भिन्नमर्मा स्रस्ताङ्गः प्रभ्रष्टमुकुटाङ्गदः 068a
पपाताभिमुखः शूरो यन्त्रमुक्त इव ध्वजः 068c
गिरेः शिखरजः श्रीमान्सुशाखः सुप्रतिष्ठितः 069a
निर्भग्न इव वातेन कर्णिकारो हिमात्यये 069c
शेते स्म निहतो भूमौ काम्बोजास्तरणोचितः 070a
सुदर्शनीयस्ताम्राक्षः कर्णिना स सुदक्षिणः 070c
पुत्रः काम्बोजराजस्य पार्थेन विनिपातितः 070e
ततः सर्वाणि सैन्यानि व्यद्रवन्त सुतस्य ते 071a
हतं श्रुतायुधं दृष्ट्वा काम्बोजं च सुदक्षिणम् 071c