सञ्जय उवाच 001
दुःशासनबलं हत्वा सव्यसाची धनञ्जयः 001a
सिन्धुराजं परीप्सन्वै द्रोणानीकमुपाद्रवत् 001c
स तु द्रोणं समासाद्य व्यूहस्य प्रमुखे स्थितम् 002a
कृताञ्जलिरिदं वाक्यं कृष्णस्यानुमतेऽब्रवीत् 002c
शिवेन ध्याहि मां ब्रह्मन्स्वस्ति चैव वदस्व मे 003a
भवत्प्रसादादिच्छामि प्रवेष्टुं दुर्भिदां चमूम् 003c
भवान्पितृसमो मह्यं धर्मराजसमोऽपि च 004a
तथा कृष्णसमश्चैव सत्यमेतद्ब्रवीमि ते 004c
अश्वत्थामा यथा तात रक्षणीयस्तवानघ 005a
तथाहमपि ते रक्ष्यः सदैव द्विजसत्तम 005c
तव प्रसादादिच्छामि सिन्धुराजानमाहवे 006a
निहन्तुं द्विपदां श्रेष्ठ प्रतिज्ञां रक्ष मे विभो 006c
एवमुक्तस्तदाचार्यः प्रत्युवाच स्मयन्निव 007a
मामजित्वा न बीभत्सो शक्यो जेतुं जयद्रथः 007c
एतावदुक्त्वा तं द्रोणः शरव्रातैरवाकिरत् 008a
सरथाश्वध्वजं तीक्ष्णैः प्रहसन्वै ससारथिम् 008c
ततोऽर्जुनः शरव्रातान्द्रोणस्यावार्य सायकैः 009a
द्रोणमभ्यर्दयद्बाणैर्घोररूपैर्महत्तरैः 009c
विव्याध च रणे द्रोणमनुमान्य विशां पते 010a
क्षत्रधर्मं समास्थाय नवभिः सायकैः पुनः 010c
तस्येषूनिषुभिश्छित्त्वा द्रोणो विव्याध तावुभौ 011a
विषाग्निज्वलनप्रख्यैरिषुभिः कृष्णपाण्डवौ 011c
इयेष पाण्डवस्तस्य बाणैश्छेत्तुं शरासनम् 012a
तस्य चिन्तयतस्त्वेवं फल्गुनस्य महात्मनः 012c
द्रोणः शरैरसम्भ्रान्तो ज्यां चिच्छेदाशु वीर्यवान् 012e
विव्याध च हयानस्य ध्वजं सारथिमेव च 013a
अर्जुनं च शरैर्वीरं स्मयमानोऽभ्यवाकिरत् 013c
एतस्मिन्नन्तरे पार्थः सज्जं कृत्वा महद्धनुः 014a
विशेषयिष्यन्नाचार्यं सर्वास्त्रविदुषां वरम् 014c
मुमोच षट्शतान्बाणान्गृहीत्वैकमिव द्रुतम् 014e
पुनः सप्त शतानन्यान्सहस्रं चानिवर्तिनाम् 015a
चिक्षेपायुतशश्चान्यांस्तेऽघ्नन्द्रोणस्य तां चमूम् 015c
तैः सम्यगस्तैर्बलिना कृतिना चित्रयोधिना 016a
मनुष्यवाजिमातङ्गा विद्धाः पेतुर्गतासवः 016c
विद्रुताश्च रणे पेतुः सञ्छिन्नायुधजीविताः 017a
रथिनो रथमुख्येभ्यः सहयाः शरपीडिताः 017c
चूर्णिताक्षिप्तदग्धानां वज्रानिलहुताशनैः 018a
तुल्यरूपा गजाः पेतुर्गिर्यग्राम्बुदवेश्मनाम् 018c
पेतुरश्वसहस्राणि प्रहतान्यर्जुनेषुभिः 019a
हंसा हिमवतः पृष्ठे वारिविप्रहता इव 019c
रथाश्वद्विपपत्त्योघाः सलिलौघा इवाद्भुताः 020a
युगान्तादित्यरश्म्याभैः पाण्डवास्तशरैर्हताः 020c
तं पाण्डवादित्यशरांशुजालं कुरुप्रवीरान्युधि निष्टपन्तम् 021a
स द्रोणमेघः शरवर्षवेगैः प्राच्छादयन्मेघ इवार्करश्मीन् 021c
अथात्यर्थविसृष्टेन द्विषतामसुभोजिना 022a
आजघ्ने वक्षसि द्रोणो नाराचेन धनञ्जयम् 022c
स विह्वलितसर्वाङ्गः क्षितिकम्पे यथाचलः 023a
धैर्यमालम्ब्य बीभत्सुर्द्रोणं विव्याध पत्रिभिः 023c
द्रोणस्तु पञ्चभिर्बाणैर्वासुदेवमताडयत् 024a
अर्जुनं च त्रिसप्तत्या ध्वजं चास्य त्रिभिः शरैः 024c
विशेषयिष्यञ्शिष्यं च द्रोणो राजन्पराक्रमी 025a
अदृश्यमर्जुनं चक्रे निमेषाच्छरवृष्टिभिः 025c
प्रसक्तान्पततोऽद्राक्ष्म भारद्वाजस्य सायकान् 026a
मण्डलीकृतमेवास्य धनुश्चादृश्यताद्भुतम् 026c
तेऽभ्ययुः समरे राजन्वासुदेवधनञ्जयौ 027a
द्रोणसृष्टाः सुबहवः कङ्कपत्रपरिच्छदाः 027c
तद्दृष्ट्वा तादृशं युद्धं द्रोणपाण्डवयोस्तदा 028a
वासुदेवो महाबुद्धिः कार्यवत्तामचिन्तयत् 028c
ततोऽब्रवीद्वासुदेवो धनञ्जयमिदं वचः 029a
पार्थ पार्थ महाबाहो न नः कालात्ययो भवेत् 029c
द्रोणमुत्सृज्य गच्छामः कृत्यमेतन्महत्तरम् 030a
पार्थश्चाप्यब्रवीत्कृष्णं यथेष्टमिति केशव 030c
ततः प्रदक्षिणं कृत्वा द्रोणं प्रायान्महाभुजः 031a
परिवृत्तश्च बीभत्सुरगच्छद्विसृजञ्शरान् 031c
ततोऽब्रवीत्स्मयन्द्रोणः क्वेदं पाण्डव गम्यते 032a
ननु नाम रणे शत्रुमजित्वा न निवर्तसे 032c
अर्जुन उवाच 033
गुरुर्भवान्न मे शत्रुः शिष्यः पुत्रसमोऽस्मि ते 033a
न चास्ति स पुमाल्ँलोके यस्त्वां युधि पराजयेत् 033c
सञ्जय उवाच 034
एवं ब्रुवाणो बीभत्सुर्जयद्रथवधोत्सुकः 034a
त्वरायुक्तो महाबाहुस्तत्सैन्यं समुपाद्रवत् 034c
तं चक्ररक्षौ पाञ्चाल्यौ युधामन्यूत्तमौजसौ 035a
अन्वयातां महात्मानौ विशन्तं तावकं बलम् 035c
ततो जयो महाराज कृतवर्मा च सात्त्वतः 036a
काम्बोजश्च श्रुतायुश्च धनञ्जयमवारयन् 036c
तेषां दशसहस्राणि रथानामनुयायिनाम् 037a
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 037c
माचेल्लका ललित्थाश्च केकया मद्रकास्तथा 038a
नारायणाश्च गोपालाः काम्बोजानां च ये गणाः 038c
कर्णेन विजिताः पूर्वं सङ्ग्रामे शूरसम्मताः 039a
भारद्वाजं पुरस्कृत्य त्यक्तात्मानोऽर्जुनं प्रति 039c
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् 040a
त्यजन्तं तुमुले प्राणान्सन्नद्धं चित्रयोधिनम् 040c
गाहमानमनीकानि मातङ्गमिव यूथपम् 041a
महेष्वासं पराक्रान्तं नरव्याघ्रमवारयन् 041c
ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 042a
अन्योन्यं वै प्रार्थयतां योधानामर्जुनस्य च 042c
जयद्रथवधप्रेप्सुमायान्तं पुरुषर्षभम् 043a
न्यवारयन्त सहिताः क्रिया व्याधिमिवोत्थितम् 043c