001 धृतराष्ट्र उवाच
001a तस्मिन्प्रभग्ने सैन्याग्रे वध्यमाने किरीटिना
001c के नु तत्र रणे वीराः प्रत्युदीयुर्धनञ्जयम्
002a आहोस्विच्छकटव्यूहं प्रविष्टा मोघनिश्चयाः
002c द्रोणमाश्रित्य तिष्ठन्तः प्राकारमकुतोभयाः
003 सञ्जय उवाच
003a तथार्जुनेन सम्भग्ने तस्मिंस्तव बले तदा
003c हतवीरे हतोत्साहे पलायनकृतक्षणे
004a पाकशासनिनाभीक्ष्णं वध्यमाने शरोत्तमैः
004c न तत्र कश्चित्सङ्ग्रामे शशाकार्जुनमीक्षितुम्
005a ततस्तव सुतो राजन्दृष्ट्वा सैन्यं तथागतम्
005c दुःशासनो भृशं क्रुद्धो युद्धायार्जुनमभ्ययात्
006a स काञ्चनविचित्रेण कवचेन समावृतः
006c जाम्बूनदशिरस्त्राणः शूरस्तीव्रपराक्रमः
007a नागानीकेन महता ग्रसन्निव महीमिमाम्
007c दुःशासनो महाराज सव्यसाचिनमावृणोत्
008a ह्रादेन गजघण्टानां शङ्खानां निनदेन च
008c ज्याक्षेपनिनदैश्चैव विरावेण च दन्तिनाम्
009a भूर्दिशश्चान्तरिक्षं च शब्देनासीत्समावृतम्
009c स मुहूर्तं प्रतिभयो दारुणः समपद्यत
010a तान्दृष्ट्वा पततस्तूर्णमङ्कुशैरभिचोदितान्
010c व्यालम्बहस्तान्संरब्धान्सपक्षानिव पर्वतान्
011a सिंहनादेन महता नरसिंहो धनञ्जयः
011c गजानीकममित्राणामभितो व्यधमच्छरैः
012a महोर्मिणमिवोद्धूतं श्वसनेन महार्णवम्
012c किरीटी तद्गजानीकं प्राविशन्मकरो यथा
013a काष्ठातीत इवादित्यः प्रतपन्युगसङ्क्षये
013c ददृशे दिक्षु सर्वासु पार्थः परपुरञ्जयः
014a खुरशब्देन चाश्वानां नेमिघोषेण तेन च
014c तेन चोत्क्रुष्टशब्देन ज्यानिनादेन तेन च
014e देवदत्तस्य घोषेण गाण्डीवनिनदेन च
015a मन्दवेगतरा नागा बभूवुस्ते विचेतसः
015c शरैराशीविषस्पर्शैर्निर्भिन्नाः सव्यसाचिना
016a ते गजा विशिखैस्तीक्ष्णैर्युधि गाण्डीवचोदितैः
016c अनेकशतसाहस्रैः सर्वाङ्गेषु समर्पिताः
017a आरावं परमं कृत्वा वध्यमानाः किरीटिना
017c निपेतुरनिशं भूमौ छिन्नपक्षा इवाद्रयः
अपरे दन्तवेष्टेषु कुम्भेषु च कटेषु च 018a
शरैः समर्पिता नागाः क्रौञ्चवद्व्यनदन्मुहुः 018c
गजस्कन्धगतानां च पुरुषाणां किरीटिना 019a
आच्छिद्यन्तोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः 019c
सकुण्डलानां पततां शिरसां धरणीतले 020a
पद्मानामिव सङ्घातैः पार्थश्चक्रे निवेदनम् 020c
यन्त्रबद्धा विकवचा व्रणार्ता रुधिरोक्षिताः 021a
भ्रमत्सु युधि नागेषु मनुष्या विललम्बिरे 021c
केचिदेकेन बाणेन सुमुक्तेन पतत्रिणा 022a
द्वौ त्रयश्च विनिर्भिन्ना निपेतुर्धरणीतले 022c
मौर्वीं धनुर्ध्वजं चैव युगानीषास्तथैव च 023a
रथिनां कुट्टयामास भल्लैः सन्नतपर्वभिः 023c
न सन्दधन्न चाप्यस्यन्न विमुञ्चन्न चोद्धरन् 024a
मण्डलेनैव धनुषा नृत्यन्पार्थः स्म दृश्यते 024c
अतिविद्धाश्च नाराचैर्वमन्तो रुधिरं मुखैः 025a
मुहूर्तान्निपतन्त्यन्ये वारणा वसुधातले 025c
उत्थितान्यगणेयानि कबन्धानि समन्ततः 026a
अदृश्यन्त महाराज तस्मिन्परमसङ्कुले 026c
सचापाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे 027a
अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः 027c
सूपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 028a
चक्रैर्विमथितैरक्षै भग्नैश्च बहुधा युगैः 028c
वर्मचापशरैश्चैव व्यवकीर्णैस्ततस्ततः 029a
स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः 029c
निहतैर्वारणैरश्वैः क्षत्रियैश्च निपातितैः 030a
अदृश्यत मही तत्र दारुणप्रतिदर्शना 030c
एवं दुःशासनबलं वध्यमानं किरीटिना 031a
सम्प्राद्रवन्महाराज व्यथितं वै सनायकम् 031c
ततो दुःशासनस्त्रस्तः सहानीकः शरार्दितः 032a
द्रोणं त्रातारमाकाङ्क्षञ्शकटव्यूहमभ्यगात् 032c