सञ्जय उवाच 001
ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष 001a
ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च 001c
अनीकानां च संह्रादे वादित्राणां च निस्वने 002a
प्रध्मापितेषु शङ्खेषु सन्नादे लोमहर्षणे 002c
अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु 003a
रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत 003c
वडानां वायसानां च पुरस्तात्सव्यसाचिनः 004a
बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत 004c
मृगाश्च घोरसन्नादाः शिवाश्चाशिवदर्शनाः 005a
दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा 005c
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः 006a
चचाल च मही कृत्स्ना भये घोरे समुत्थिते 006c
विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः 007a
ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते 007c
नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः 008a
पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा 008c
ततो रथसहस्रेण द्विरदानां शतेन च 009a
त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः 009c
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव 010a
अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् 010c
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम् 011a
अहमावारयिष्यामि वेलेव मकरालयम् 011c
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम् 012a
विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि 012c
एवं ब्रुवन्महाराज महात्मा स महामतिः 013a
महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः 013c
ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः 014a
दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः 014c
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव 015a
युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः 015c
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः 016a
जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् 016c
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत् 017a
शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली 017c
रथप्रवरमास्थाय नरो नारायणानुगः 018a
विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः 018c
सोऽग्रानीकस्य महत इषुपाते धनञ्जयः 019a
व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् 019c
अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष 020a
प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा 020c
तयोः शङ्खप्रणादेन तव सैन्ये विशां पते 021a
आसन्संहृष्टरोमाणः कम्पिता गतचेतसः 021c
यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात् 022a
तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः 022c
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः 023a
एवं सवाहनं सर्वमाविग्नमभवद्बलम् 023c
व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष 024a
विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः 024c
ततः कपिर्महानादं सह भूतैर्ध्वजालयैः 025a
अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् 025c
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह 026a
पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः 026c
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः 027a
सिंहनादैः सवादित्रैः समाहूतैर्महारथैः 027c
तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने 028a
अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः 028c
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः 029a
एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् 029c
एवमुक्तो महाबाहुः केशवः सव्यसाचिना 030a
अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः 030c
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः 031a
एकस्य च बहूनां च रथनागनरक्षयः 031c
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान् 032a
परानवाकिरत्पार्थः पर्वतानिव नीरदः 032c
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत् 033a
अवाकिरन्बाणजालैस्ततः कृष्णधनञ्जयौ 033c
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि 034a
शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः 034c
उद्भ्रान्तनयनैर्वक्त्रैः सन्दष्टोष्ठपुटैः शुभैः 035a
सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत 035c
पुण्डरीकवनानीव विध्वस्तानि समन्ततः 036a
विनिकीर्णानि योधानां वदनानि चकाशिरे 036c
तपनीयविचित्राणि सिक्तानि रुधिरेण च 037a
अदृश्यन्त यथा राजन्मेघसङ्घाः सविद्युतः 037c
शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले 038a
कालेन परिपक्वानां तालानां पततामिव 038c
ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति 039a
कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति 039c
नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः 040a
अमृष्यमाणाः कौन्तेयं सङ्ग्रामे जयगृद्धिनः 040c
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी 041a
बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत 041c
अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो 042a
तव सैन्येषु योधानां पार्थभूतमिवाभवत् 042c
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे 043a
पार्थभूतममन्यन्त जगत्कालेन मोहिताः 043c
निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः 044a
शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् 044c
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः 045a
सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः 045c
सबाणवर्माभरणाः सगदाः साङ्गदा रणे 046a
महाभुजगसङ्काशा बाहवः परिघोपमाः 046c
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः 047a
वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः 047c
यो यः स्म समरे पार्थं प्रतिसंरभते नरः 048a
तस्य तस्यान्तको बाणः शरीरमुपसर्पति 048c
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा 049a
न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि 049c
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान् 050a
लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः 050c
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च 051a
अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् 051c
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः 052a
प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः 052c
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः 053a
तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः 053c
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत 054a
अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः 054c
यथा मध्यन्दिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा 055a
तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः 055c
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप 056a
प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् 056c
मारुतेनेव महता मेघानीकं विधूयता 057a
प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् 057c
प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः 058a
कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च 058c
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः 059a
सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः 059c
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे 060a
शरैः सम्मोहिताश्चान्ये तमेवाभिमुखा ययौ 060c
तव योधा हतोत्साहा विभ्रान्तमनसस्तदा 060e