धृतराष्ट्र उवाच 001
श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः 001a
अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः 001c
जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः 002a
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः 002c
पुत्रशोकाभिसन्तप्तं क्रुद्धं मृत्युमिवान्तकम् 003a
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे 003c
कपिराजध्वजं सङ्ख्ये विधुन्वानं महद्धनुः 004a
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः 004c
किं नु सञ्जय सङ्ग्रामे वृत्तं दुर्योधनं प्रति 005a
परिदेवो महानत्र श्रुतो मे नाभिनन्दनम् 005c
बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः 006a
न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने 006c
स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम 007a
सूतमागधसङ्घानां नर्तकानां च सर्वशः 007c
शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः 008a
दीनानामद्य तं शब्दं न शृणोमि समीरितम् 008c
निवेशने सत्यधृतेः सोमदत्तस्य सञ्जय 009a
आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम् 009c
तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम् 010a
निवेशनं हतोत्साहं पुत्राणां मम लक्षये 010c
विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः 011a
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः 011c
ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते 012a
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम् 012c
वितण्डालापसल्लापैर्हुतयाचितवन्दितैः 013a
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम् 013c
उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः 014a
सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा 014c
द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये 015a
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः 015c
विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः 016a
श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु 016c
नित्यप्रमुदितानां च तालगीतस्वनो महान् 017a
नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः 017c
सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः 018a
सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः 018c
ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः 019a
द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम् 019c
नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः 020a
वादित्रनादितानां च सोऽद्य न श्रूयते महान् 020c
यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः 021a
आगतः सर्वभूतानामनुकम्पार्थमच्युतः 021c
ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा 022a
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः 022c
कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः 023a
शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् 023c
हितार्थमभिजल्पन्तं न तथास्त्यपराजयः 023e
प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम् 024a
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत 024c
ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः 025a
अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः 025c
न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति 026a
सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति 026c
शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा 027a
अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति सञ्जय 027c
एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः 028a
सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः 028c
श्लक्ष्णा मधुरसम्भाषा ज्ञातिमध्ये प्रियंवदाः 029a
कुलीनाः सम्मताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः 029c
धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम् 030a
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते 030c
अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः 031a
तेषामपि समुद्रान्ता पितृपैतामही मही 031c
नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि 032a
सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः 032c
शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः 033a
द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च 033c
अन्येषां चैव वृद्धानां भरतानां महात्मनाम् 034a
त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम् 034c
कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा 035a
कृष्णो न धर्मं सञ्जह्यात्सर्वे ते च त्वदन्वयाः 035c
मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम् 036a
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः 036c
इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान् 037a
न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम् 037c
वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः 038a
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः 038c
धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः 039a
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः 039c
चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः 040a
द्रौपदेया विराटश्च द्रुपदश्च महारथः 040c
यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः 040e
क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः 041a
दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिन्दमाः 041c
अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात् 042a
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम् 042c
येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः 043a
सन्नद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः 043c
तेषां मम विलापानां न हि दुर्योधनः स्मरेत् 044a
हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे 044c
तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम् 045a
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः 045c
हिमात्यये यथा कक्षं शुष्कं वातेरितो महान् 046a
अग्निर्दहेत्तथा सेनां मामिकां स धनञ्जयः 046c
आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि सञ्जय 047a
यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम् 047c
अभिमन्यौ हते तात कथमासीन्मनो हि वः 047e
न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः 048a
अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः 048c
किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत् 049a
दुःशासनः सौबलश्च तेषामेवं गते अपि 049c
सर्वेषां समवेतानां पुत्राणां मम सञ्जय 049e
यद्वृत्तं तात सङ्ग्रामे मन्दस्यापनयैर्भृशम् 050a
लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः 050c
राज्यकामस्य मूढस्य रागोपहतचेतसः 051a
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व सञ्जय 051c