001 सञ्जय उवाच 001a तथा सम्भाषतां तेषां प्रादुरासीद्धनञ्जयः 001c दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम् 002a तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम् 002c समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः 003a मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना 003c आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत 004a व्यक्तमर्जुन सङ्ग्रामे ध्रुवस्ते विजयो महान् 004c यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः 005a तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम् 005c दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम् 006a ततस्तत्कथयामास यथादृष्टं धनञ्जयः 006c आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम् 007a ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः 007c नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन् 008a अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना 008c त्वरमाणाः सुसन्नद्धा हृष्टा युद्धाय निर्ययुः 009a अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः 009c हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात् 010a रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ 010c जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम् 011a तत्र गत्वा हृषीकेशः कल्पयामास सूतवत् 011c रथं रथवरस्याजौ वानरर्षभलक्षणम् 012a स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः 012c बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा 013a ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः 013c कृताह्निकाय पार्थाय न्यवेदयत तं रथम् 014a तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत् 014c बाणबाणासनी वाहं प्रदक्षिणमवर्तत 015a ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः 015c स्तूयमानो जयाशीभिरारुरोह महारथम् 016a जैत्रैः साङ्ग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम् 016c अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा 017a स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः 017c विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः 018a अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ 018c शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ 019a अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः 019c मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः 020a स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः 020c सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी 021a सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा 021c सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये 022a ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः 022c प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः 023a सजयाशीः सपुण्याहः सूतमागधनिस्वनः 023c युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत् 024a तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः 024c ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन् 025a प्रादुरासन्निमित्तानि विजयाय बहूनि च 025c पाण्डवानां त्वदीयानां विपरीतानि मारिष 026a दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम् 026c युयुधानं महेष्वासमिदं वचनमब्रवीत् 027a युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः 027c यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुङ्गव 028a सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः 028c यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते 029a यथा परमकं कृत्यं सैन्धवस्य वधे मम 029c तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे 030a स त्वमद्य महाबाहो राजानं परिपालय 030c यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा 031a त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे 031c शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ 032a मय्यपेक्षा न कर्तव्या कथञ्चिदपि सात्वत 032c राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया 033a न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः 033c किञ्चिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम् 034a एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा 034c तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः