001 युधिष्ठिर उवाच 001a सुखेन रजनी व्युष्टा कच्चित्ते मधुसूदन 001c कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत 002 सञ्जय उवाच 002a वासुदेवोऽपि तद्युक्तं पर्यपृच्छद्युधिष्ठिरम् 002c ततः क्षत्ता प्रकृतयो न्यवेदयदुपस्थिताः 003a अनुज्ञातश्च राज्ञा स प्रावेशयत तं जनम् 003c विराटं भीमसेनं च धृष्टद्युम्नं च सात्यकिम् 004a शिखण्डिनं यमौ चैव चेकितानं च केकयान् 004c युयुत्सुं चैव कौरव्यं पाञ्चाल्यं चोत्तमौजसम् 005a एते चान्ये च बहवः क्षत्रियाः क्षत्रियर्षभम् 005c उपतस्थुर्महात्मानं विविशुश्चासनेषु ते 006a एकस्मिन्नासने वीरावुपविष्टौ महाबलौ 006c कृष्णश्च युयुधानश्च महात्मानौ महाद्युती 007a ततो युधिष्ठिरस्तेषां शृण्वतां मधुसूदनम् 007c अब्रवीत्पुण्डरीकाक्षमाभाष्य मधुरं वचः 008a एकं त्वां वयमाश्रित्य सहस्राक्षमिवामराः 008c प्रार्थयामो जयं युद्धे शाश्वतानि सुखानि च 009a त्वं हि राज्यविनाशं च द्विषद्भिश्च निराक्रियाम् 009c क्लेशांश्च विविधान्कृष्ण सर्वांस्तानपि वेत्थ नः 010a त्वयि सर्वेश सर्वेषामस्माकं भक्तवत्सल 010c सुखमायत्तमत्यर्थं यात्रा च मधुसूदन 011a स तथा कुरु वार्ष्णेय यथा त्वयि मनो मम 011c अर्जुनस्य यथा सत्या प्रतिज्ञा स्याच्चिकीर्षिता 012a स भवांस्तारयत्वस्माद्दुःखामर्षमहार्णवात् 012c पारं तितीर्षतामद्य प्लवो नो भव माधव 013a न हि तत्कुरुते सङ्ख्ये कार्तवीर्यसमस्त्वपि 013c रथी यत्कुरुते कृष्ण सारथिर्यत्नमास्थितः 014 वासुदेव उवाच 014a सामरेष्वपि लोकेषु सर्वेषु न तथाविधः 014c शरासनधरः कश्चिद्यथा पार्थो धनञ्जयः 015a वीर्यवानस्त्रसम्पन्नः पराक्रान्तो महाबलः 015c युद्धशौण्डः सदामर्षी तेजसा परमो नृणाम् 016a स युवा वृषभस्कन्धो दीर्घबाहुर्महाबलः 016c सिंहर्षभगतिः श्रीमान्द्विषतस्ते हनिष्यति 017a अहं च तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः 017c धार्तराष्ट्रस्य सैन्यानि धक्ष्यत्यग्निरिवोत्थितः 018a अद्य तं पापकर्माणं क्षुद्रं सौभद्रघातिनम् 018c अपुनर्दर्शनं मार्गमिषुभिः क्षेप्स्यतेऽर्जुनः 019a तस्याद्य गृध्राः श्येनाश्च वडगोमायवस्तथा 019c भक्षयिष्यन्ति मांसानि ये चान्ये पुरुषादकाः 020a यद्यस्य देवा गोप्तारः सेन्द्राः सर्वे तथाप्यसौ 020c राजधानीं यमस्याद्य हतः प्राप्स्यति सङ्कुले 021a निहत्य सैन्धवं जिष्णुरद्य त्वामुपयास्यति 021c विशोको विज्वरो राजन्भव भूतिपुरस्कृतः