001 सञ्जय उवाच 001a तयोः संवदतोरेव कृष्णदारुकयोस्तदा 001c सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत 002a पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः 002c वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् 003a नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः 003c कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः 004a मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः 004c आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः 005a एवमेतानि सर्वाणि तथान्यान्यपि भारत 005c वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः 006a स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम् 006c पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् 007a प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे 007c उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः 008a ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम् 008c स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे 009a भद्रासने सूपविष्टः परिधायाम्बरं लघु 009c सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः 010a उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः 010c आप्लुतः साधिवासेन जलेन च सुगन्धिना 011a हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः 011c स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः 012a जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः 012c ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् 013a समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा 013c मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः 014a द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः 014c तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् 015a दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च 015c सहस्रानुचरान्सौरानष्टौ दशशतानि च 016a अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः 016c तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः 017a प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः 017c अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः 018a तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः 018c हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् 019a स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान् 019c माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् 020a पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा 020c स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् 021a मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम् 021c दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः 022a ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः 022c सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् 023a परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत् 023c विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् 024a तत्र तस्योपविष्टस्य भूषणानि महात्मनः 024c उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः 025a युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः 025c रूपमासीन्महाराज द्विषतां शोकवर्धनम् 026a पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः 026c दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः 027a संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः 027c उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः 028a ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान् 028c नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् 029a ह्रादेन गजघण्टानां शङ्खानां निनदेन च 029c नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी 030a ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः 030c शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् 031a कुण्डली बद्धनिस्त्रिंशः सन्नद्धकवचो युवा 031c अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै 031e न्यवेदयद्धृषीकेशमुपयातं महात्मने 032a सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम् 032c अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् 033a ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने 033c सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः