001 सञ्जय उवाच 001a कुन्तीपुत्रस्तु तं मन्त्रं स्मरन्नेव धनञ्जयः 001c प्रतिज्ञामात्मनो रक्षन्मुमोहाचिन्त्यविक्रमः 002a तं तु शोकेन सन्तप्तं स्वप्ने कपिवरध्वजम् 002c आससाद महातेजा ध्यायन्तं गरुडध्वजः 003a प्रत्युत्थानं तु कृष्णस्य सर्वावस्थं धनञ्जयः 003c नालोपयत धर्मात्मा भक्त्या प्रेम्णा च सर्वदा 004a प्रत्युत्थाय च गोविन्दं स तस्मायासनं ददौ 004c न चासने स्वयं बुद्धिं बीभत्सुर्व्यदधात्तदा 005a ततः कृष्णो महातेजा जानन्पार्थस्य निश्चयम् 005c कुन्तीपुत्रमिदं वाक्यमासीनः स्थितमब्रवीत् 006a मा विषादे मनः पार्थ कृथाः कालो हि दुर्जयः 006c कालः सर्वाणि भूतानि नियच्छति परे विधौ 007a किमर्थं च विषादस्ते तद्ब्रूहि वदतां वर 007c न शोचितव्यं विदुषा शोकः कार्यविनाशनः 008a शोचन्नन्दयते शत्रून्कर्शयत्यपि बान्धवान् 008c क्षीयते च नरस्तस्मान्न त्वं शोचितुमर्हसि 009a इत्युक्तो वासुदेवेन बीभत्सुरपराजितः 009c आबभाषे तदा विद्वानिदं वचनमर्थवत् 010a मया प्रतिज्ञा महती जयद्रथवधे कृता 010c श्वोऽस्मि हन्ता दुरात्मानं पुत्रघ्नमिति केशव 011a मत्प्रतिज्ञाविघातार्थं धार्तराष्ट्रैः किलाच्युत 011c पृष्ठतः सैन्धवः कार्यः सर्वैर्गुप्तो महारथैः 012a दश चैका च ताः कृष्ण अक्षौहिण्यः सुदुर्जयाः 012c प्रतिज्ञायां च हीनायां कथं जीवेत मद्विधः 013a दुःखोपायस्य मे वीर विकाङ्क्षा परिवर्तते 013c द्रुतं च याति सविता तत एतद्ब्रवीम्यहम् 014a शोकस्थानं तु तच्छ्रुत्वा पार्थस्य द्विजकेतनः 014c संस्पृश्याम्भस्ततः कृष्णः प्राङ्मुखः समवस्थितः 015a इदं वाक्यं महातेजा बभाषे पुष्करेक्षणः 015c हितार्थं पाण्डुपुत्रस्य सैन्धवस्य वधे वृतः 016a पार्थ पाशुपतं नाम परमास्त्रं सनातनम् 016c येन सर्वान्मृधे दैत्याञ्जघ्ने देवो महेश्वरः 017a यदि तद्विदितं तेऽद्य श्वो हन्तासि जयद्रथम् 017c अथ ज्ञातुं प्रपद्यस्व मनसा वृषभध्वजम् 018a तं देवं मनसा ध्यायञ्जोषमास्स्व धनञ्जय 018c ततस्तस्य प्रसादात्त्वं भक्तः प्राप्स्यसि तन्महत् 019a ततः कृष्णवचः श्रुत्वा संस्पृश्याम्भो धनञ्जयः 019c भूमावासीन एकाग्रो जगाम मनसा भवम् 020a ततः प्रणिहिते ब्राह्मे मुहूर्ते शुभलक्षणे 020c आत्मानमर्जुनोऽपश्यद्गगने सहकेशवम् 021a ज्योतिर्भिश्च समाकीर्णं सिद्धचारणसेवितम् 021c वायुवेगगतिः पार्थः खं भेजे सहकेशवः 022a केशवेन गृहीतः स दक्षिणे विभुना भुजे 022c प्रेक्षमाणो बहून्भावाञ्जगामाद्भुतदर्शनान् 023a उदीच्यां दिशि धर्मात्मा सोऽपश्यच्छ्वेतपर्वतम् 023c कुबेरस्य विहारे च नलिनीं पद्मभूषिताम् 024a सरिच्छ्रेष्ठां च तां गङ्गां वीक्षमाणो बहूदकाम् 024c सदापुष्पफलैर्वृक्षैरुपेतां स्फटिकोपलाम् 025a सिंहव्याघ्रसमाकीर्णां नानामृगगणाकुलाम् 025c पुण्याश्रमवतीं रम्यां मनोज्ञाण्डजसेविताम् 026a मन्दरस्य प्रदेशांश्च किन्नरोद्गीतनादितान् 026c हेमरूप्यमयैः शृङ्गैर्नानौषधिविदीपितान् 026e तथा मन्दारवृक्षैश्च पुष्पितैरुपशोभितान् 027a स्निग्धाञ्जनचयाकारं सम्प्राप्तः कालपर्वतम् 027c पुण्यं हिमवतः पादं मणिमन्तं च पर्वतम् 027e ब्रह्मतुङ्गं नदीश्चान्यास्तथा जनपदानपि 028a सुशृङ्गं शतशृङ्गं च शर्यातिवनमेव च 028c पुण्यमश्वशिरःस्थानं स्थानमाथर्वणस्य च 029a वृषदंशं च शैलेन्द्रं महामन्दरमेव च 029c अप्सरोभिः समाकीर्णं किन्नरैश्चोपशोभितम् 030a तांश्च शैलान्व्रजन्पार्थः प्रेक्षते सहकेशवः 030c शुभैः प्रस्रवणैर्जुष्टान्हेमधातुविभूषितान् 031a चन्द्ररश्मिप्रकाशाङ्गीं पृथिवीं पुरमालिनीम् 031c समुद्रांश्चाद्भुताकारानपश्यद्बहुलाकरान् 032a वियद्द्यां पृथिवीं चैव पश्यन्विष्णुपदे व्रजन् 032c विस्मितः सह कृष्णेन क्षिप्तो बाण इवात्यगात् 033a ग्रहनक्षत्रसोमानां सूर्याग्न्योश्च समत्विषम् 033c अपश्यत तदा पार्थो ज्वलन्तमिव पर्वतम् 034a समासाद्य तु तं शैलं शैलाग्रे समवस्थितम् 034c तपोनित्यं महात्मानमपश्यद्वृषभध्वजम् 035a सहस्रमिव सूर्याणां दीप्यमानं स्वतेजसा 035c शूलिनं जटिलं गौरं वल्कलाजिनवाससम् 036a नयनानां सहस्रैश्च विचित्राङ्गं महौजसम् 036c पार्वत्या सहितं देवं भूतसङ्घैश्च भास्वरैः 037a गीतवादित्रसंह्रादैस्ताललास्यसमन्वितम् 037c वल्गितास्फोटितोत्क्रुष्टैः पुण्यगन्धैश्च सेवितम् 038a स्तूयमानं स्तवैर्दिव्यैर्मुनिभिर्ब्रह्मवादिभिः 038c गोप्तारं सर्वभूतानामिष्वासधरमच्युतम् 039a वासुदेवस्तु तं दृष्ट्वा जगाम शिरसा क्षितिम् 039c पार्थेन सह धर्मात्मा गृणन्ब्रह्म सनातनम् 040a लोकादिं विश्वकर्माणमजमीशानमव्ययम् 040c मनसः परमां योनिं खं वायुं ज्योतिषां निधिम् 041a स्रष्टारं वारिधाराणां भुवश्च प्रकृतिं पराम् 041c देवदानवयक्षाणां मानवानां च साधनम् 042a योगिनां परमं ब्रह्म व्यक्तं ब्रह्मविदां निधिम् 042c चराचरस्य स्रष्टारं प्रतिहर्तारमेव च 043a कालकोपं महात्मानं शक्रसूर्यगुणोदयम् 043c अवन्दत तदा कृष्णो वाङ्मनोबुद्धिकर्मभिः 044a यं प्रपश्यन्ति विद्वांसः सूक्ष्माध्यात्मपदैषिणः 044c तमजं कारणात्मानं जग्मतुः शरणं भवम् 045a अर्जुनश्चापि तं देवं भूयो भूयोऽभ्यवन्दत 045c ज्ञात्वैकं भूतभव्यादिं सर्वभूतभवोद्भवम् 046a ततस्तावागतौ शर्वः प्रोवाच प्रहसन्निव 046c स्वागतं वां नरश्रेष्ठावुत्तिष्ठेतां गतक्लमौ 046e किं च वामीप्सितं वीरौ मनसः क्षिप्रमुच्यताम् 047a येन कार्येण सम्प्राप्तौ युवां तत्साधयामि वाम् 047c व्रियतामात्मनः श्रेयस्तत्सर्वं प्रददानि वाम् 048a ततस्तद्वचनं श्रुत्वा प्रत्युत्थाय कृताञ्जली 048c वासुदेवार्जुनौ शर्वं तुष्टुवाते महामती 049a नमो भवाय शर्वाय रुद्राय वरदाय च 049c पशूनां पतये नित्यमुग्राय च कपर्दिने 050a महादेवाय भीमाय त्र्यम्बकाय च शम्भवे 050c ईशानाय भगघ्नाय नमोऽस्त्वन्धकघातिने 051a कुमारगुरवे नित्यं नीलग्रीवाय वेधसे 051c विलोहिताय धूम्राय व्याधायानपराजिते 052a नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे 052c हन्त्रे गोप्त्रे त्रिनेत्राय व्याधाय वसुरेतसे 053a अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च 053c वृषध्वजाय पिङ्गाय जटिने ब्रह्मचारिणे 054a तप्यमानाय सलिले ब्रह्मण्यायाजिताय च 054c विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते 055a नमो नमस्ते सेव्याय भूतानां प्रभवे सदा 055c ब्रह्मवक्त्राय शर्वाय शङ्कराय शिवाय च 056a नमोऽस्तु वाचस्पतये प्रजानां पतये नमः 056c नमो विश्वस्य पतये महतां पतये नमः 057a नमः सहस्रशिरसे सहस्रभुजमन्यवे 057c सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे 058a नमो हिरण्यवर्णाय हिरण्यकवचाय च 058c भक्तानुकम्पिने नित्यं सिध्यतां नौ वरः प्रभो 059a एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः 059c प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये 060a ततोऽर्जुनः प्रीतमना ववन्दे वृषभध्वजम् 060c ददर्शोत्फुल्लनयनः समस्तं तेजसां निधिम् 061a तं चोपहारं स्वकृतं नैशं नैत्यकमात्मनः 061c ददर्श त्र्यम्बकाभ्याशे वासुदेवनिवेदितम् 062a ततोऽभिपूज्य मनसा शर्वं कृष्णं च पाण्डवः 062c इच्छाम्यहं दिव्यमस्त्रमित्यभाषत शङ्करम् 063a ततः पार्थस्य विज्ञाय वरार्थे वचनं प्रभुः 063c वासुदेवार्जुनौ देवः स्मयमानोऽभ्यभाषत 064a सरोऽमृतमयं दिव्यमभ्याशे शत्रुसूदनौ 064c तत्र मे तद्धनुर्दिव्यं शरश्च निहितः पुरा 065a येन देवारयः सर्वे मया युधि निपातिताः 065c तत आनीयतां कृष्णौ सशरं धनुरुत्तमम् 066a तथेत्युक्त्वा तु तौ वीरौ तं शर्वं पार्षदैः सह 066c प्रस्थितौ तत्सरो दिव्यं दिव्याश्चर्यशतैर्वृतम् 067a निर्दिष्टं यद्वृषाङ्केन पुण्यं सर्वार्थसाधकम् 067c तज्जग्मतुरसम्भ्रान्तौ नरनारायणावृषी 068a ततस्तु तत्सरो गत्वा सूर्यमण्डलसन्निभम् 068c नागमन्तर्जले घोरं ददृशातेऽर्जुनाच्युतौ 069a द्वितीयं चापरं नागं सहस्रशिरसं वरम् 069c वमन्तं विपुलां ज्वालां ददृशातेऽग्निवर्चसम् 070a ततः कृष्णश्च पार्थश्च संस्पृश्यापः कृताञ्जली 070c तौ नागावुपतस्थाते नमस्यन्तौ वृषध्वजम् 071a गृणन्तौ वेदविदुषौ तद्ब्रह्म शतरुद्रियम् 071c अप्रमेयं प्रणमन्तौ गत्वा सर्वात्मना भवम् 072a ततस्तौ रुद्रमाहात्म्याद्धित्वा रूपं महोरगौ 072c धनुर्बाणश्च शत्रुघ्नं तद्द्वन्द्वं समपद्यत 073a ततो जगृहतुः प्रीतौ धनुर्बाणं च सुप्रभम् 073c आजह्रतुर्महात्मानौ ददतुश्च महात्मने 074a ततः पार्श्वाद्वृषाङ्कस्य ब्रह्मचारी न्यवर्तत 074c पिङ्गाक्षस्तपसः क्षेत्रं बलवान्नीललोहितः 075a स तद्गृह्य धनुःश्रेष्ठं तस्थौ स्थानं समाहितः 075c व्यकर्षच्चापि विधिवत्सशरं धनुरुत्तमम् 076a तस्य मौर्वीं च मुष्टिं च स्थानं चालक्ष्य पाण्डवः 076c श्रुत्वा मन्त्रं भवप्रोक्तं जग्राहाचिन्त्यविक्रमः 077a सरस्येव च तं बाणं मुमोचातिबलः प्रभुः 077c चकार च पुनर्वीरस्तस्मिन्सरसि तद्धनुः 078a ततः प्रीतं भवं ज्ञात्वा स्मृतिमानर्जुनस्तदा 078c वरमारण्यकं दत्तं दर्शनं शङ्करस्य च 078e मनसा चिन्तयामास तन्मे सम्पद्यतामिति 079a तस्य तन्मतमाज्ञाय प्रीतः प्रादाद्वरं भवः 079c तच्च पाशुपतं घोरं प्रतिज्ञायाश्च पारणम् 080a संहृष्टरोमा दुर्धर्षः कृतं कार्यममन्यत 080c ववन्दतुश्च संहृष्टौ शिरोभ्यां तौ महेश्वरम् 081a अनुज्ञातौ क्षणे तस्मिन्भवेनार्जुनकेशवौ 081c प्राप्तौ स्वशिबिरं वीरौ मुदा परमया युतौ 081e इन्द्राविष्णू यथा प्रीतौ जम्भस्य वधकाङ्क्षिणौ