001 सञ्जय उवाच 001a ततोऽर्जुनस्य भवनं प्रविश्याप्रतिमं विभुः 001c स्पृष्ट्वाम्भः पुण्डरीकाक्षः स्थण्डिले शुभलक्षणे 001e सन्तस्तार शुभां शय्यां दर्भैर्वैडूर्यसन्निभैः 002a ततो माल्येन विधिवल्लाजैर्गन्धैः सुमङ्गलैः 002c अलञ्चकार तां शय्यां परिवार्यायुधोत्तमैः 003a ततः स्पृष्टोदकं पार्थं विनीताः परिचारकाः 003c दर्शयां नैत्यकं चक्रुर्नैशं त्रैयम्बकं बलिम् 004a ततः प्रीतमनाः पार्थो गन्धैर्माल्यैश्च माधवम् 004c अलङ्कृत्योपहारं तं नैशमस्मै न्यवेदयत् 005a स्मयमानस्तु गोविन्दः फल्गुनं प्रत्यभाषत 005c सुप्यतां पार्थ भद्रं ते कल्याणाय व्रजाम्यहम् 006a स्थापयित्वा ततो द्वाःस्थान्गोप्तॄंश्चात्तायुधान्नरान् 006c दारुकानुगतः श्रीमान्विवेश शिबिरं स्वकम् 006e शिश्ये च शयने शुभ्रे बहुकृत्यं विचिन्तयन् 007a न पाण्डवानां शिबिरे कश्चित्सुष्वाप तां निशाम् 007c प्रजागरः सर्वजनमाविवेश विशाम्पते 008a पुत्रशोकाभिभूतेन प्रतिज्ञातो महात्मना 008c सहसा सिन्धुराजस्य वधो गाण्डीवधन्वना 009a तत्कथं नु महाबाहुर्वासविः परवीरहा 009c प्रतिज्ञां सफलां कुर्यादिति ते समचिन्तयन् 010a कष्टं हीदं व्यवसितं पाण्डवेन महात्मना 010c पुत्रशोकाभितप्तेन प्रतिज्ञा महती कृता 011a भ्रातरश्चापि विक्रान्ता बहुलानि बलानि च 011c धृतराष्ट्रस्य पुत्रेण सर्वं तस्मै निवेदितम् 012a स हत्वा सैन्धवं सङ्ख्ये पुनरेतु धनञ्जयः 012c जित्वा रिपुगणांश्चैव पारयत्वर्जुनो व्रतम् 013a अहत्वा सिन्धुराजं हि धूमकेतुं प्रवेक्ष्यति 013c न ह्येतदनृतं कर्तुमर्हः पार्थो धनञ्जयः 014a धर्मपुत्रः कथं राजा भविष्यति मृतेऽर्जुने 014c तस्मिन्हि विजयः कृत्स्नः पाण्डवेन समाहितः 015a यदि नः सुकृतं किञ्चिद्यदि दत्तं हुतं यदि 015c फलेन तस्य सर्वस्य सव्यसाची जयत्वरीन् 016a एवं कथयतां तेषां जयमाशंसतां प्रभो 016c कृच्छ्रेण महता राजन्रजनी व्यत्यवर्तत 017a तस्यां रजन्यां मध्ये तु प्रतिबुद्धो जनार्दनः 017c स्मृत्वा प्रतिज्ञां पार्थस्य दारुकं प्रत्यभाषत 018a अर्जुनेन प्रतिज्ञातमार्तेन हतबन्धुना 018c जयद्रथं हनिष्यामि श्वोभूत इति दारुक 019a तत्तु दुर्योधनः श्रुत्वा मन्त्रिभिर्मन्त्रयिष्यति 019c यथा जयद्रथं पार्थो न हन्यादिति संयुगे 020a अक्षौहिण्यो हि ताः सर्वा रक्षिष्यन्ति जयद्रथम् 020c द्रोणश्च सह पुत्रेण सर्वास्त्रविधिपारगः 021a एको वीरः सहस्राक्षो दैत्यदानवमर्दिता 021c सोऽपि तं नोत्सहेताजौ हन्तुं द्रोणेन रक्षितम् 022a सोऽहं श्वस्तत्करिष्यामि यथा कुन्तीसुतोऽर्जुनः 022c अप्राप्तेऽस्तं दिनकरे हनिष्यति जयद्रथम् 023a न हि दारा न मित्राणि ज्ञातयो न च बान्धवाः 023c कश्चिन्नान्यः प्रियतरः कुन्तीपुत्रान्ममार्जुनात् 024a अनर्जुनमिमं लोकं मुहूर्तमपि दारुक 024c उदीक्षितुं न शक्तोऽहं भविता न च तत्तथा 025a अहं ध्वजिन्यः शत्रूणां सहयाः सरथद्विपाः 025c अर्जुनार्थे हनिष्यामि सकर्णाः ससुयोधनाः 026a श्वो निरीक्षन्तु मे वीर्यं त्रयो लोका महाहवे 026c धनञ्जयार्थं समरे पराक्रान्तस्य दारुक 027a श्वो नरेन्द्रसहस्राणि राजपुत्रशतानि च 027c साश्वद्विपरथान्याजौ विद्रविष्यन्ति दारुक 028a श्वस्तां चक्रप्रमथितां द्रक्ष्यसे नृपवाहिनीम् 028c मया क्रुद्धेन समरे पाण्डवार्थे निपातिताम् 029a श्वः सदेवाः सगन्धर्वाः पिशाचोरगराक्षसाः 029c ज्ञास्यन्ति लोकाः सर्वे मां सुहृदं सव्यसाचिनः 030a यस्तं द्वेष्टि स मां द्वेष्टि यस्तमनु स मामनु 030c इति सङ्कल्प्यतां बुद्ध्या शरीरार्धं ममार्जुनः 031a यथा त्वमप्रभातायामस्यां निशि रथोत्तमम् 031c कल्पयित्वा यथाशास्त्रमादाय व्रतसंयतः 032a गदां कौमोदकीं दिव्यां शक्तिं चक्रं धनुः शरान् 032c आरोप्य वै रथे सूत सर्वोपकरणानि च 033a स्थानं हि कल्पयित्वा च रथोपस्थे ध्वजस्य मे 033c वैनतेयस्य वीरस्य समरे रथशोभिनः 034a छत्रं जाम्बूनदैर्जालैरर्कज्वलनसन्निभैः 034c विश्वकर्मकृतैर्दिव्यैरश्वानपि च भूषितान् 035a बलाहकं मेघपुष्पं सैन्यं सुग्रीवमेव च 035c युक्त्वा वाजिवरान्यत्तः कवची तिष्ठ दारुक 036a पाञ्चजन्यस्य निर्घोषमार्षभेणैव पूरितम् 036c श्रुत्वा तु भैरवं नादमुपयाया जवेन माम् 037a एकाह्नाहममर्षं च सर्वदुःखानि चैव ह 037c भ्रातुः पितृष्वसेयस्य व्यपनेष्यामि दारुक 038a सर्वोपायैर्यतिष्यामि यथा बीभत्सुराहवे 038c पश्यतां धार्तराष्ट्राणां हनिष्यति जयद्रथम् 039a यस्य यस्य च बीभत्सुर्वधे यत्नं करिष्यति 039c आशंसे सारथे तत्र भवितास्य ध्रुवो जयः 040 दारुक उवाच 040a जय एव ध्रुवस्तस्य कुत एव पराजयः 040c यस्य त्वं पुरुषव्याघ्र सारथ्यमुपजग्मिवान् 041a एवं चैतत्करिष्यामि यथा मामनुशाससि 041c सुप्रभातामिमां रात्रिं जयाय विजयस्य हि