001 सञ्जय उवाच 001a एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः 001c सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता 002a हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह 002c निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः 003a कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम् 003c मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना 004a नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम् 004c सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम् 005a चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम् 005c भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम् 006a शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम् 006c भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः 007a योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः 007c कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे 008a योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः 008c सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते 009a पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो 009c पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत् 010a अतृप्तदर्शना पुत्र दर्शनस्य तवानघ 010c मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम् 011a विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च 011c तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम् 012a धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् 012c धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम् 013a धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान् 013c ये त्वा रणे गतं वीरं न जानन्ति निपातितम् 014a अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम् 014c अभिमन्युमपश्यन्ती शोकव्याकुललोचना 015a स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः 015c कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम् 016a हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे 016c अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम् 017a इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम् 017c कथं सन्धारयिष्यामि विवत्सामिव धेनुकाम् 018a अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक 018c विहाय फलकाले मां सुगृद्धां तव दर्शने 019a नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा 019c यत्र त्वं केशवे नाथे सङ्ग्रामेऽनाथवद्धतः 020a यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम् 020c चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम् 021a कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि 021c सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि 022a या गतिर्युध्यमानानां शूराणामनिवर्तिनाम् 022c हत्वारीन्निहतानां च सङ्ग्रामे तां गतिं व्रज 023a गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः 023c नैवेशिकं चाभिमतं ददतां या गतिः शुभा 024a ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः 024c एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक 025a राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती 025c चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः 026a दीनानुकम्पिनां या च सततं संविभागिनाम् 026c पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक 027a व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि 027c अमोघातिथिनां या च तां गतिं व्रज पुत्रक 028a ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम् 028c न चान्यदारसेवीनां तां गतिं व्रज पुत्रक 029a साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः 029c नारुन्तुदानां क्षमिणां या गतिस्तामवाप्नुहि 030a मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात् 030c परोपतापत्यक्तानां तां गतिं व्रज पुत्रक 031a ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः 031c यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक 032a एवं विलपतीं दीनां सुभद्रां शोककर्शिताम् 032c अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा 033a ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः 033c उन्मत्तवत्तदा राजन्विसञ्ज्ञा न्यपतन्क्षितौ 034a सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः 034c सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः 035a विसञ्ज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम् 035c भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत् 036a सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम् 036c गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुङ्गवः 037a ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने 037c सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः 038a कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः 038c कृतवान्यादृगद्यैकस्तव पुत्रो महारथः 039a एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम् 039c पार्थस्यैव महाबाहुः पार्श्वमागादरिन्दमः 040a ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः 040c विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम्