001 सञ्जय उवाच 001a तां निशां दुःखशोकार्तौ श्वसन्ताविव चोरगौ 001c निद्रां नैवोपलेभाते वासुदेवधनञ्जयौ 002a नरनारायणौ क्रुद्धौ ज्ञात्वा देवाः सवासवाः 002c व्यथिताश्चिन्तयामासुः किं स्विदेतद्भविष्यति 003a ववुश्च दारुणा वाता रूक्षा गोराभिशंसिनः 003c सकबन्धस्तथादित्ये परिघः समदृश्यत 004a शुष्काशन्यश्च निष्पेतुः सनिर्घाताः सविद्युतः 004c चचाल चापि पृथिवी सशैलवनकानना 005a चुक्षुभुश्च महाराज सागरा मकरालयाः 005c प्रतिस्रोतः प्रवृत्ताश्च तथा गन्तुं समुद्रगाः 006a रथाश्वनरनागानां प्रवृत्तमधरोत्तरम् 006c क्रव्यादानां प्रमोदार्थं यमराष्ट्रविवृद्धये 007a वाहनानि शकृन्मूत्रे मुमुचू रुरुदुश्च ह 007c तान्दृष्ट्वा दारुणान्सर्वानुत्पाताल्ँलोमहर्षणान् 008a सर्वे ते व्यथिताः सैन्यास्त्वदीया भरतर्षभ 008c श्रुत्वा महाबलस्योग्रां प्रतिज्ञां सव्यसाचिनः 009a अथ कृष्णं महाबाहुरब्रवीत्पाकशासनिः 009c आश्वासय सुभद्रां त्वं भगिनीं स्नुषया सह 010a स्नुषा श्वश्र्वानघायस्ते विशोके कुरु माधव 010c साम्ना सत्येन युक्तेन वचसाश्वासय प्रभो 011a ततोऽर्जुनगृहं गत्वा वासुदेवः सुदुर्मनाः 011c भगिनीं पुत्रशोकार्तामाश्वासयत दुःखिताम् 012a मा शोकं कुरु वार्ष्णेयि कुमारं प्रति सस्नुषा 012c सर्वेषां प्राणिनां भीरु निष्ठैषा कालनिर्मिता 013a कुले जातस्य वीरस्य क्षत्रियस्य विशेषतः 013c सदृशं मरणं ह्येतत्तव पुत्रस्य मा शुचः 014a दिष्ट्या महारथो वीरः पितुस्तुल्यपराक्रमः 014c क्षात्रेण विधिना प्राप्तो वीराभिलषितां गतिम् 015a जित्वा सुबहुशः शत्रून्प्रेषयित्वा च मृत्यवे 015c गतः पुण्यकृतां लोकान्सर्वकामदुहोऽक्षयान् 016a तपसा ब्रह्मचर्येण श्रुतेन प्रज्ञयापि च 016c सन्तो यां गतिमिच्छन्ति प्राप्तस्तां तव पुत्रकः 017a वीरसूर्वीरपत्नी त्वं वीरश्वशुरबान्धवा 017c मा शुचस्तनयं भद्रे गतः स परमां गतिम् 018a प्राप्स्यते चाप्यसौ क्षुद्रः सैन्धवो बालघातकः 018c अस्यावलेपस्य फलं ससुहृद्गणबान्धवः 019a व्युष्टायां तु वरारोहे रजन्यां पापकर्मकृत् 019c न हि मोक्ष्यति पार्थात्स प्रविष्टोऽप्यमरावतीम् 020a श्वः शिरः श्रोष्यसे तस्य सैन्धवस्य रणे हृतम् 020c समन्तपञ्चकाद्बाह्यं विशोका भव मा रुदः 021a क्षत्रधर्मं पुरस्कृत्य गतः शूरः सतां गतिम् 021c यां वयं प्राप्नुयामेह ये चान्ये शस्त्रजीविनः 022a व्यूढोरस्को महाबाहुरनिवर्ती वरप्रणुत् 022c गतस्तव वरारोहे पुत्रः स्वर्गं ज्वरं जहि 023a अनु जातश्च पितरं मातृपक्षं च वीर्यवान् 023c सहस्रशो रिपून्हत्वा हतः शूरो महारथः 024a आश्वासय स्नुषां राज्ञि मा शुचः क्षत्रिये भृशम् 024c श्वः प्रियं सुमहच्छ्रुत्वा विशोका भव नन्दिनि 025a यत्पार्थेन प्रतिज्ञातं तत्तथा न तदन्यथा 025c चिकीर्षितं हि ते भर्तुर्न भवेज्जातु निष्फलम् 026a यदि च मनुजपन्नगाः पिशाचा रजनिचराः पतगाः सुरासुराश्च 026c रणगतमभियान्ति सिन्धुराजं न स भविता सह तैरपि प्रभाते