001 सञ्जय उवाच 001a प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा 001c वासुदेवो महाबाहुर्धनञ्जयमभाषत 002a भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम् 002c सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम् 003a असम्मन्त्र्य मया सार्धमतिभारोऽयमुद्यतः 003c कथं नु सर्वलोकस्य नावहास्या भवेमहि 004a धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः 004c त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः 005a त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे तदा 005c सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः 006a तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः 006c नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः 007a सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज 007c आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः 008a अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनञ्जयः 008c रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः 009a तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव 009c प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन 010a ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव 010c आसन्सुयोधनामात्याः स च राजा जयद्रथः 011a अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः 011c आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः 012a स मन्त्रकाले सम्मन्त्र्य सर्वा नैःश्रेयसीः क्रियाः 012c सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि 013a मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः 013c प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम 014a तां न देवा न गन्धर्वा नासुरोरगराक्षसाः 014c उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः 015a ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः 015c पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम् 016a अथ रक्षा न मे सङ्ख्ये क्रियते कुरुनन्दन 016c अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति 017a एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः 017c श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत 018a तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः 018c मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् 019a नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम् 019c योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे 020a वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः 020c कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः 021a महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा 021c पदातिना महातेजा गिरौ हिमवति प्रभुः 022a दानवानां सहस्राणि हिरण्यपुरवासिनाम् 022c जघानैकरथेनैव देवराजप्रचोदितः 023a समायुक्तो हि कौन्तेयो वासुदेवेन धीमता 023c सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः 024a सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना 024c द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे 025a स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन 025c संविधानं च विहितं रथाश्च किल सज्जिताः 026a कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः 026c कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः 027a शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः 027c पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः 027e स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः 028a धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि 028c अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः 028e एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः 029a तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय 029c सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा 030a भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै 030c मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये 031 अर्जुन उवाच 031a षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान् 031c तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये 032a अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन 032c मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा 033a द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः 033c मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले 034a यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः 034c मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः 035a पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः 035c द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः 036a ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च 036c त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन 037a तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया 037c सत्येन ते शपे कृष्ण तथैवायुधमालभे 038a यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः 038c तमेव प्रथमं द्रोणमभियास्यामि केशव 039a तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः 039c तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम् 040a द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः 040c शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि 041a नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम् 041c पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः 042a गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे 042c नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः 043a यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया 043c उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि 044a ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे 044c मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम् 045a शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः 045c आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि 046a क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान् 046c सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम् 047a बह्वागस्कृत्कुसम्बन्धी पापदेशसमुद्भवः 047c मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति 048a सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे 048c मया सराजका बाणैर्नुन्ना नङ्क्ष्यन्ति सैन्धवाः 049a तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः 049c नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि 050a गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ 050c त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया 051a यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम् 051c एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन 052a मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम् 052c मावमंस्था बलं बाह्वोर्मावमंस्था धनञ्जयम् 053a यथा हि यात्वा सङ्ग्रामे न जीये विजयामि च 053c तेन सत्येन सङ्ग्रामे हतं विद्धि जयद्रथम् 054a ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु सन्नतिः 054c श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः 055 सञ्जय उवाच 055a एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना 055c सन्दिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम् 056a यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम 056c तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम्