001 सञ्जय उवाच 001a श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम् 001c चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः 002a शोकसम्मूढहृदयो दुःखेनाभिहतो भृशम् 002c मज्जमान इवागाधे विपुले शोकसागरे 003a जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु 003c स तेषां नरदेवानां सकाशे परिदेवयन् 004a अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत् 004c योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना 005a स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम् 005c तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया 006a अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः 006c पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम् 007a द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः 007c दुःशासनादयः शक्तास्त्रातुमप्यन्तकाद्रितम् 008a किमङ्ग पुनरेकेन फल्गुनेन जिघांसता 008c न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः 009a प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम् 009c सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः 010a वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना 010c तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः 011a न देवा न च गन्धर्वा नासुरोरगराक्षसाः 011c उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः 012a तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः 012c अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः 013a एवं विलपमानं तं भयाद्व्याकुलचेतसम् 013c आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत् 014a न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ 014c मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि 015a अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः 015c भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः 016a पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः 016c सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः 017a दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः 017c विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः 018a त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः 018c स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव 019a अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे 019c यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम् 020a एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः 020c दुर्योधनेन सहितो द्रोणं रात्रावुपागमत् 021a उपसङ्ग्रहणं कृत्वा द्रोणाय स विशाम्पते 021c उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा 022a निमित्ते दूरपातित्वे लघुत्वे दृढवेधने 022c मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च 023a विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः 023c ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे 024 द्रोण उवाच 024a सममाचार्यकं तात तव चैवार्जुनस्य च 024c योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः 025a न तु ते युधि सन्त्रासः कार्यः पार्थात्कथञ्चन 025c अहं हि रक्षिता तात भयात्त्वां नात्र संशयः 026a न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि 026c व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति 027a तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय 027c पितृपैतामहं मार्गमनुयाहि नराधिप 028a अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया 028c इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम् 029a दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु 029c भुजवीर्यार्जिताल्ँलोकान्दिव्यान्प्राप्स्यस्यनुत्तमान् 030a कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः 030c अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम् 031a पर्यायेण वयं सर्वे कालेन बलिना हताः 031c परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः 032a तपस्तप्त्वा तु याल्ँलोकान्प्राप्नुवन्ति तपस्विनः 032c क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान् 033 सञ्जय उवाच 033a एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः 033c अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे