001 युधिष्ठिर उवाच 001a त्वयि याते महाबाहो संशप्तकबलं प्रति 001c प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम 002a व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः 002c प्रतिव्यूह्य रथानीकं यतमानं तथा रणे 003a स वार्यमाणो रथिभी रक्षितेन मया तथा 003c अस्मानपि जघानाशु पीडयन्निशितैः शरैः 004a ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः 004c प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु 005a वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम् 005c उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो 006a स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान् 006c असह्यमपि तं भारं वोढुमेवोपचक्रमे 007a स तवास्त्रोपदेशेन वीर्येण च समन्वितः 007c प्राविशत्तद्बलं बालः सुपर्ण इव सागरम् 008a तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे 008c प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम् 009a ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः 009c वरदानेन रुद्रस्य सर्वान्नः समवारयत् 010a ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः 010c कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन् 011a परिवार्य तु तैः सर्वैर्युधि बालो महारथैः 011c यतमानः परं शक्त्या बहुभिर्विरथीकृतः 012a ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम् 012c संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत् 013a स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम् 013c राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून् 014a बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह 014c ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान् 015a एतावदेव निर्वृत्तमस्माकं शोकवर्धनम् 015c स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान् 016 सञ्जय उवाच 016a ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम् 016c हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि 017a विषण्णवदनाः सर्वे परिगृह्य धनञ्जयम् 017c नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम् 018a प्रतिलभ्य ततः सञ्ज्ञां वासविः क्रोधमूर्छितः 018c कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः 019a पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान् 019c उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत् 020a सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम् 020c न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति 021a न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम् 021c भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम् 022a धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम् 022c पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम् 023a रक्षमाणाश्च तं सङ्ख्ये ये मां योत्स्यन्ति केचन 023c अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः 024a यद्येतदेवं सङ्ग्रामे न कुर्यां पुरुषर्षभाः 024c मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसम्मतान् 025a ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम् 025c गुरुदारगामिनां ये च पिशुनानां च ये तथा 026a साधूनसूयतां ये च ये चापि परिवादिनाम् 026c ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम् 027a भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम् 027c ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि 028a पायसं वा यवान्नं वा शाकं कृसरमेव वा 028c संयावापूपमांसानि ये च लोका वृथाश्नताम् 028e तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम् 029a वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम् 029c अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून् 030a स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत् 030c याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः 030e तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् 031a नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः 031c उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः 031e आत्मापहारिणां या च या च मिथ्याभिशंसिनाम् 032a भृत्यैः सन्दृश्यमानानां पुत्रदाराश्रितैस्तथा 032c असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम् 032e तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम् 033a संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम् 033c न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम् 034a अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च 034c अनर्हते च यो दद्याद्वृषलीपत्युरेव च 035a मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः 035c तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम् 036a धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः 036c ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम् 036e यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम् 037a इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत 037c यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति 037e इहैव सम्प्रवेष्टाहं ज्वलितं जातवेदसम् 038a असुरसुरमनुष्याः पक्षिणो वोरगा वा पितृरजनिचरा वा ब्रह्मदेवर्षयो वा 038c चरमचरमपीदं यत्परं चापि तस्मात्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः 039a यदि विशति रसातलं तदग्र्यं वियदपि देवपुरं दितेः पुरं वा 039c तदपि शरशतैरहं प्रभाते भृशमभिपत्य रिपोः शिरोऽभिहर्ता 040a एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम् 040c तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम् 041a अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः 041c प्रदध्मौ तत्र सङ्क्रुद्धो देवदत्तं धनञ्जयः 042a स पाञ्चजन्योऽच्युतवक्त्रवायुना भृशं सुपूर्णोदरनिःसृतध्वनिः 042c जगत्सपातालवियद्दिगीश्वरं प्रकम्पयामास युगात्यये यथा 043a ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः 043c सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना