001 सञ्जय उवाच 001a तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये 001c आदित्येऽस्तङ्गते श्रीमान्सन्ध्याकाल उपस्थिते 002a व्यपयातेषु सैन्येषु वासाय भरतर्षभ 002c हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः 003a प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम् 003c गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत 004a किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव 004c स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत 005a अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति 005c भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम् 006a बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः 006c अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम 007 वासुदेव उवाच 007a व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति 007c मा शुचः किञ्चिदेवान्यत्तत्रानिष्टं भविष्यति 008 सञ्जय उवाच 008a ततः सन्ध्यामुपास्यैव वीरौ वीरावसादने 008c कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ 009a ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम् 009c वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम् 010a ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा 010c बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः 011a नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन 011c मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह 011e वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह 012a मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च 012c स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः 013a योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः 013c कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम् 014a अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव 014c न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम् 015a अपि पाञ्चालराजस्य विराटस्य च मानद 015c सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत 016a न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह 016c रणादायान्तमुचितं प्रत्युद्याति हसन्निव 017a एवं सङ्कथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम् 017c ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः 018a दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः 018c अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत् 019a मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते 019c न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ 020a मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः 020c न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे 021a न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः 021c कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः 022a भित्त्वानीकं महेष्वासः परेषां बहुशो युधि 022c कच्चिन्न निहतः शेते सौभद्रः परवीरहा 023a लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु 023c उपेन्द्रसदृशं ब्रूत कथमायोधने हतः 024a सुकुमारं महेष्वासं वासवस्यात्मजात्मजम् 024c सदा मम प्रियं ब्रूत कथमायोधने हतः 025a वार्ष्णेयीदयितं शूरं मया सततलालितम् 025c अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः 026a सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः 026c विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः 027a सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च 027c यदि पुत्रं न पश्यामि यास्यामि यमसादनम् 028a मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम् 028c मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम् 029a स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा 029c बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम् 030a महोत्साहं महाबाहुं दीर्घराजीवलोचनम् 030c भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम् 031a कृतज्ञं ज्ञानसम्पन्नं कृतास्त्रमनिवर्तिनम् 031c युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम् 032a स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम् 032c न च पूर्वप्रहर्तारं सङ्ग्रामे नष्टसम्भ्रमम् 032e यदि पुत्रं न पश्यामि यास्यामि यमसादनम् 033a सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम् 033c अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे 034a तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम् 034c अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे 035a रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम् 035c अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे 036a अभिवादनदक्षं तं पितॄणां वचने रतम् 036c नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे 037a सुकुमारः सदा वीरो महार्हशयनोचितः 037c भूमावनाथवच्छेते नूनं नाथवतां वरः 038a शयानं समुपासन्ति यं पुरा परमस्त्रियः 038c तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः 039a यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः 039c बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः 040a छत्रच्छायासमुचितं तस्य तद्वदनं शुभम् 040c नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति 041a हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने 041c भाग्यहीनस्य कालेन यथा मे नीयसे बलात् 042a साद्य संयमनी नूनं सदा सुकृतिनां गतिः 042c स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते 043a नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः 043c शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम् 044a एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा 044c दुःखेन महताविष्टो युधिष्ठिरमपृच्छत 045a कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन 045c स्वर्गतोऽभिमुखः सङ्ख्ये युध्यमानो नरर्षभः 046a स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः 046c असहायः सहायार्थी मामनुध्यातवान्ध्रुवम् 047a पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम् 047c इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः 048a अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च 048c सुभद्रायां च सम्भूतो नैवं वक्तुमिहार्हति 049a वज्रसारमयं नूनं हृदयं सुदृढं मम 049c अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते 050a कथं बाले महेष्वासे नृशंसा मर्मभेदिनः 050c स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान् 051a यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति 051c उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति 052a नूनं स पतितः शेते धरण्यां रुधिरोक्षितः 052c शोभयन्मेदिनीं गात्रैरादित्य इव पातितः 053a रणे विनिहतं श्रुत्वा शोकार्ता वै विनङ्क्ष्यति 053c सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती 053e द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम् 054a वज्रसारमयं नूनं हृदयं यन्न यास्यति 054c सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम् 055a हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः 055c युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन् 056a अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः 056c किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम् 057a किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे 057c सिंहवन्नदत प्रीताः शोककाल उपस्थिते 058a आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः 058c अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम् 059a इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः 059c अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः 060a किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम 060c अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान् 061a निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम् 061c मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम् 062a सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम् 062c क्षत्रियाणां विशेषेण येषां युद्धेन जीविका 063a एषा वै युध्यमानानां शूराणामनिवर्तिनाम् 063c विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर 064a ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम् 064c गतः पुण्यकृतां लोकानभिमन्युर्न संशयः 065a एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ 065c सङ्ग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद 066a स च वीरान्रणे हत्वा राजपुत्रान्महाबलान् 066c वीरैराकाङ्क्षितं मृत्युं सम्प्राप्तोऽभिमुखो रणे 067a मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः 067c धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः 068a इमे ते भ्रातरः सर्वे दीना भरतसत्तम 068c त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव 069a एतांस्त्वं वचसा साम्ना समाश्वासय मानद 069c विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि 070a एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा 070c ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान् 071a स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः 071c अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा 072a सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया 072c सङ्ग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः 073a कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम् 073c सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः 074a यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम 074c पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः 075a कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम् 075c नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः 076a अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः 076c यत्राभिमन्युः समरे पश्यतां वो निपातितः 077a आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान् 077c युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान् 078a आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः 078c वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम् 079a एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान् 079c न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम् 080a तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः 080c पुत्रशोकाभिसन्तप्तमश्रुपूर्णमुखं तदा 081a नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम् 081c अन्यत्र वासुदेवाद्वा ज्येष्ठाद्वा पाण्डुनन्दनात् 082a सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ 082c बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः 083a ततस्तं पुत्रशोकेन भृशं पीडितमानसम् 083c राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत्