001 सञ्जय उवाच 001a तस्मिंस्तु निहते वीरे सौभद्रे रथयूथपे 001c विमुक्तरथसन्नाहाः सर्वे निक्षिप्तकार्मुकाः 002a उपोपविष्टा राजानं परिवार्य युधिष्ठिरम् 002c तदेव दुःखं ध्यायन्तः सौभद्रगतमानसाः 003a ततो युधिष्ठिरो राजा विललाप सुदुःखितः 003c अभिमन्यौ हते वीरे भ्रातुः पुत्रे महारथे 004a द्रोणानीकमसम्बाधं मम प्रियचिकीर्षया 004c भित्त्वा व्यूहं प्रविष्टोऽसौ गोमध्यमिव केसरी 005a यस्य शूरा महेष्वासाः प्रत्यनीकगता रणे 005c प्रभग्ना विनिवर्तन्ते कृतास्त्रा युद्धदुर्मदाः 006a अत्यन्तशत्रुरस्माकं येन दुःशासनः शरैः 006c क्षिप्रं ह्यभिमुखः सङ्क्ये विसञ्ज्ञो विमुखीकृतः 007a स तीर्त्वा दुस्तरं वीरो द्रोणानीकमहार्णवम् 007c प्राप्य दौःशासनिं कार्ष्णिर्यातो वैवस्वतक्षयम् 008a कथं द्रक्ष्यामि कौन्तेयं सौभद्रे निहतेऽर्जुनम् 008c सुभद्रां वा महाभागां प्रियं पुत्रमपश्यतीम् 009a किं स्विद्वयमपेतार्थमश्लिष्टमसमञ्जसम् 009c तावुभौ प्रतिवक्ष्यामो हृषीकेशधनञ्जयौ 010a अहमेव सुभद्रायाः केशवार्जुनयोरपि 010c प्रियकामो जयाकाङ्क्षी कृतवानिदमप्रियम् 011a न लुब्धो बुध्यते दोषान्मोहाल्लोभः प्रवर्तते 011c मधु लिप्सुर्हि नापश्यं प्रपातमिदमीदृशम् 012a यो हि भोज्ये पुरस्कार्यो यानेषु शयनेषु च 012c भूषणेषु च सोऽस्माभिर्बालो युधि पुरस्कृतः 013a कथं हि बालस्तरुणो युद्धानामविशारदः 013c सदश्व इव सम्बाधे विषमे क्षेममर्हति 014a नो चेद्धि वयमप्येनं महीमनुशयीमहि 014c बीभत्सोः कोपदीप्तस्य दग्धाः कृपणचक्षुषा 015a अलुब्धो मतिमान्ह्रीमान्क्षमावान्रूपवान्बली 015c वपुष्मान्मानकृद्वीरः प्रियः सत्यपरायणः 016a यस्य श्लाघन्ति विबुधाः कर्माण्यूर्जितकर्मणः 016c निवातकवचाञ्जघ्ने कालकेयांश्च वीर्यवान् 017a महेन्द्रशत्रवो येन हिरण्यपुरवासिनः 017c अक्ष्णोर्निमेषमात्रेण पौलोमाः सगणा हताः 018a परेभ्योऽप्यभयार्थिभ्यो यो ददात्यभयं विभुः 018c तस्यास्माभिर्न शकितस्त्रातुमद्यात्मजो भयात् 019a भयं तु सुमहत्प्राप्तं धार्तराष्ट्रं महद्बलम् 019c पार्थः पुत्रवधात्क्रुद्धः कौरवाञ्शोषयिष्यति 020a क्षुद्रः क्षुद्रसहायश्च स्वपक्षक्षयमातुरः 020c व्यक्तं दुर्योधनो दृष्ट्वा शोचन्हास्यति जीवितम् 021a न मे जयः प्रीतिकरो न राज्यं न चामरत्वं न सुरैः सलोकता 021c इमं समीक्ष्याप्रतिवीर्यपौरुषं निपातितं देववरात्मजात्मजम्