001 सञ्जय उवाच 001a विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः 001c रराजातिरथः सङ्ख्ये जनार्दन इवापरः 002a मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम् 002c वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि 003a तच्चक्रं भृशमुद्विग्नाः सञ्चिच्छिदुरनेकधा 003c महारथस्ततः कार्ष्णिः सञ्जग्राह महागदाम् 004a विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः 004c अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत् 005a स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव 005c अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः 006a तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी 006c शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत 007a ततः सुबलदायादं कालकेयमपोथयत् 007c जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम् 008a पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश 008c केकयानां रथान्सप्त हत्वा च दश कुञ्जरान् 008e दौःशासनिरथं साश्वं गदया समपोथयत् 009a ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष 009c अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत् 010a तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ 010c भ्रातृव्यौ सम्प्रजह्राते पुरेव त्र्यम्बकान्तकौ 011a तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ 011c इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परन्तपौ 012a दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः 012c प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत् 013a गदावेगेन महता व्यायामेन च मोहितः 013c विचेता न्यपतद्भूमौ सौभद्रः परवीरहा 013e एवं विनिहतो राजन्नेको बहुभिराहवे 014a क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः 014c अशोभत हतो वीरो व्याधैर्वनगजो यथा 015a तं तथा पतितं शूरं तावकाः पर्यवारयन् 015c दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये 016a विमृद्य तरुशृङ्गाणि सन्निवृत्तमिवानिलम् 016c अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम् 017a उपप्लुतं यथा सोमं संशुष्कमिव सागरम् 017c पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम् 018a तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः 018c मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः 019a आसीत्परमको हर्षस्तावकानां विशाम्पते 019c इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम् 020a अभिक्रोशन्ति भूतानि अन्तरिक्षे विशाम्पते 020c दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात् 021a द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः 021c एकोऽयं निहतः शेते नैष धर्मो मतो हि नः 022a तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी 022c द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी 023a रुक्मपुङ्खैश्च सम्पूर्णा रुधिरौघपरिप्लुता 023c उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः 024a विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता 024c चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः 025a रथाश्वनरनागानामलङ्कारैश्च सुप्रभैः 025c खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव 026a चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः 026c विविधैरायुधैश्चान्यैः संवृता भूरशोभत 027a वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः 027c सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः 028a साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः 028c पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः 029a पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः 029c ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः 030a पदातिसङ्घैश्च हतैर्विविधायुधभूषणैः 030c भीरूणां त्रासजननी घोररूपाभवन्मही 031a तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम् 031c तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा 032a अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने 032c सम्प्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः 033a दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते 033c अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत् 034a स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः 034c संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून् 035a इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः 035c धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत् 036a युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून् 036c पूर्वं निहत्य सङ्ग्रामे पश्चादार्जुनिरन्वगात् 037a हत्वा दशसहस्राणि कौसल्यं च महारथम् 037c कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम् 038a रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः 038c अवितृप्तः स सङ्ग्रामादशोच्यः पुण्यकर्मकृत् 039a वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः 039c निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः 040a निरीक्षमाणास्तु वयं परे चायोधनं शनैः 040c अपयाता महाराज ग्लानिं प्राप्ता विचेतसः 041a ततो निशाया दिवसस्य चाशिवः शिवारुतः सन्धिरवर्तताद्भुतः 041c कुशेशयापीडनिभे दिवाकरे विलम्बमानेऽस्तमुपेत्य पर्वतम् 042a वरासिशक्त्यृष्टिवरूथचर्मणां विभूषणानां च समाक्षिपन्प्रभाम् 042c दिवं च भूमिं च समानयन्निव प्रियां तनुं भानुरुपैति पावकम् 043a महाभ्रकूटाचलशृङ्गसन्निभैर्गजैरनेकैरिव वज्रपातितैः 043c सवैजयन्त्यङ्कुशवर्मयन्तृभिर्निपातितैर्निष्टनतीव गौश्चिता 044a हतेश्वरैश्चूर्णितपत्त्युपस्करैर्हताश्वसूतैर्विपताककेतुभिः 044c महारथैर्भूः शुशुभे विचूर्णितैः पुरैरिवामित्रहतैर्नराधिप 045a रथाश्ववृन्दैः सहसादिभिर्हतैः प्रविद्धभाण्डाभरणैः पृथग्विधैः 045c निरस्तजिह्वादशनान्त्रलोचनैर्धरा बभौ घोरविरूपदर्शना 046a प्रविद्धवर्माभरणा वरायुधा विपन्नहस्त्यश्वरथानुगा नराः 046c महार्हशय्यास्तरणोचिताः सदा क्षितावनाथा इव शेरते हताः 047a अतीव हृष्टाः श्वसृगालवायसा बडाः सुपर्णाश्च वृकास्तरक्षवः 047c वयांस्यसृक्पान्यथ रक्षसां गणाः पिशाचसङ्घाश्च सुदारुणा रणे 048a त्वचो विनिर्भिद्य पिबन्वसामसृक्तथैव मज्जां पिशितानि चाश्नुवन् 048c वपां विलुम्पन्ति हसन्ति गान्ति च प्रकर्षमाणाः कुणपान्यनेकशः 049a शरीरसङ्घाटवहा असृग्जला रथोडुपा कुञ्जरशैलसङ्कटा 049c मनुष्यशीर्षोपलमांसकर्दमा प्रविद्धनानाविधशस्त्रमालिनी 050a महाभया वैतरणीव दुस्तरा प्रवर्तिता योधवरैस्तदा नदी 050c उवाह मध्येन रणाजिरं भृशं भयावहा जीवमृतप्रवाहिनी 051a पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः पिशाचसङ्घा विविधाः सुभैरवाः 051c सुनन्दिताः प्राणभृतां भयङ्कराः समानभक्षाः श्वसृगालपक्षिणः 052a तथा तदायोधनमुग्रदर्शनं निशामुखे पितृपतिराष्ट्रसन्निभम् 052c निरीक्षमाणाः शनकैर्जहुर्नराः समुत्थितारुण्डकुलोपसङ्कुलम् 053a अपेतविध्वस्तमहार्हभूषणं निपातितं शक्रसमं महारथम् 053c रणेऽभिमन्युं ददृशुस्तदा जना व्यपोढहव्यं सदसीव पावकम्