001 सञ्जय उवाच 001a स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः 001c शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम् 002a प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः 002c स तैराचितसर्वाङ्गो बह्वशोभत भारत 003a कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम् 003c कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः 004a तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ 004c बभूवतुर्महात्मानौ पुष्पिताविव किङ्शुकौ 005a अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः 005c साश्वसूतध्वजरथान्सौभद्रो निजघान ह 006a अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः 006c प्रत्यविध्यदसम्भ्रान्तस्तदद्भुतमिवाभवत् 007a मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः 007c साश्वं ससूतं तरुणमश्वकेतुमपातयत् 008a मार्तिकावतकं भोजं ततः कुञ्जरकेतनम् 008c क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान् 009a तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान् 009c सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम् 010a ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः 010c संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत् 011a पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा 011c दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे 012a एतावदुक्त्वा वचनं कर्मारपरिमार्जितम् 012c नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत् 013a तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत् 013c तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत् 014a तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी 014c तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम् 015a शत्रुञ्जयं चन्द्रकेतुं मेघवेगं सुवर्चसम् 015c सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम् 016a तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत् 016c सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः 017a अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा 017c पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः 018a ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत 018c अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति 019a अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम् 019c शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत 020a धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते 020c सन्दधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः 021a आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः 021c प्रहर्षयति मा भूयः सौभद्रः परवीरहा 022a अति मा नन्दयत्येष सौभद्रो विचरन्रणे 022c अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः 023a अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः 023c न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः 024a अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः 024c स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना 025a तेजस्विनः कुमारस्य शराः परमदारुणाः 025c क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः 026a तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव 026c अभेद्यमस्य कवचं युवा चाशुपराक्रमः 027a उपदिष्टा मया अस्य पितुः कवचधारणा 027c तामेष निखिलां वेत्ति ध्रुवं परपुरञ्जयः 028a शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः 028c अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी 029a एतत्कुरु महेष्वास राधेय यदि शक्यते 029c अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु 030a सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः 030c विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि 031a तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन् 031c अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत् 032a अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी 032c शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन् 033a त्वरमाणास्त्वराकाले विरथं षण्महारथाः 033c शरवर्षैरकरुणा बालमेकमवाकिरन् 034a स छिन्नधन्वा विरथः स्वधर्ममनुपालयन् 034c खड्गचर्मधरः श्रीमानुत्पपात विहायसम् 035a मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च 035c आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव 036a मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः 036c विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः 037a तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम् 037c राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम् 038a व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम् 038c आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत 039a स चक्ररेणूज्ज्वलशोभिताङ्गो बभावतीवोन्नतचक्रपाणिः 039c रणेऽभिमन्युः क्षणदासुभद्रः स वासुभद्रानुकृतिं प्रकुर्वन् 040a स्रुतरुधिरकृतैकरागवक्त्रो भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः 040c प्रभुरमितबलो रणेऽभिमन्युर्नृपवरमध्यगतो भृशं व्यराजत्