001 धृतराष्ट्र उवाच 001a तथा प्रविष्टं तरुणं सौभद्रमपराजितम् 001c कुलानुरूपं कुर्वाणं सङग्रामेष्वपलायिनम् 002a आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः 002c प्लवमानमिवाकाशे के शूराः समवारयन् 003 सञ्जय उवाच 003a अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः 003c अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः 004a तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः 004c कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् 005a दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् 005c सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत् 006a सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः 006c तालमात्राणि चापानि विकर्षन्तो महारथाः 007a तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् 007c व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा 008a द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम् 008c अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः 009a रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः 009c अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः 010a स कर्णं कर्णिना कर्णे पीतेन निशितेन च 010c फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा 011a पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी 011c अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे 012a ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् 012c पुत्राणां तव वीराणां पश्यतामवधीद्बली 013a तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत् 013c वरं वरममित्राणामारुजन्तमभीतवत् 014a स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष 014c पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः 015a षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः 015c उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम् 016a स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः 016c प्रत्यविध्यन्महातेजा बलवानपकारिणम् 017a तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् 017c अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे 018a कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश 018c बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश 019a तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः 019c तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः 020a तं कोसलानामधिपः कर्णिनाताडयद्धृदि 020c स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ 021a अथ कोसलराजस्तु विरथः खड्गचर्मधृत् 021c इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम् 022a स कोसलानां भर्तारं राजपुत्रं बृहद्बलम् 022c हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत् 023a बभञ्ज च सहस्राणि दश राजन्महात्मनाम् 023c सृजतामशिवा वाचः खड्गकार्मुकधारिणाम् 024a तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे 024c विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः