001 धृतराष्ट्र उवाच 001a यथा वदसि मे सूत एकस्य बहुभिः सह 001c सङ्ग्रामं तुमुलं घोरं जयं चैव महात्मनः 002a अश्रद्धेयमिवाश्चर्यं सौभद्रस्याथ विक्रमम् 002c किं तु नात्यद्भुतं तेषां येषां धर्मो व्यपाश्रयः 003a दुर्योधनेऽथ विमुखे राजपुत्रशते हते 003c सौभद्रे प्रतिपत्तिं कां प्रत्यपद्यन्त मामकाः 004 सञ्जय उवाच 004a संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षिणः 004c पलायनकृतोत्साहा निरुत्साहा द्विषज्जये 005a हतान्भ्रातॄन्पितॄन्पुत्रान्सुहृत्सम्बन्धिबान्धवान् 005c उत्सृज्योत्सृज्य समियुस्त्वरयन्तो हयद्विपान् 006a तान्प्रभग्नांस्तथा दृष्ट्वा द्रोणो द्रौणिर्बृहद्बलः 006c कृपो दुर्योधनः कर्णः कृतवर्माथ सौबलः 007a अभिद्रुताः सुसङ्क्रुद्धाः सौभद्रमपराजितम् 007c तेऽपि पौत्रेण ते राजन्प्रायशो विमुखीकृताः 008a एकस्तु सुखसंवृद्धो बाल्याद्दर्पाच्च निर्भयः 008c इष्वस्त्रविन्महातेजा लक्ष्मणोऽऽर्जुनिमभ्ययात् 009a तमन्वगेवास्य पिता पुत्रगृद्धी न्यवर्तत 009c अनु दुर्योधनं चान्ये न्यवर्तन्त महारथाः 010a तं तेऽभिषिषिचुर्बाणैर्मेघा गिरिमिवाम्बुभिः 010c स च तान्प्रममाथैको विष्वग्वातो यथाम्बुदान् 011a पौत्रं तु तव दुर्धर्षं लक्ष्मणं प्रियदर्शनम् 011c पितुः समीपे तिष्ठन्तं शूरमुद्यतकार्मुकम् 012a अत्यन्तसुखसंवृद्धं धनेश्वरसुतोपमम् 012c आससाद रणे कार्ष्णिर्मत्तो मत्तमिव द्विपम् 013a लक्ष्मणेन तु सङ्गम्य सौभद्रः परवीरहा 013c शरैः सुनिशितैस्तीक्ष्णैर्बाह्वोरुरसि चार्पितः 014a सङ्क्रुद्धो वै महाबाहुर्दण्डाहत इवोरगः 014c पौत्रस्तव महाराज तव पौत्रमभाषत 015a सुदृष्टः क्रियतां लोको अमुं लोकं गमिष्यसि 015c पश्यतां बान्धवानां त्वां नयामि यमसादनम् 016a एवमुक्त्वा ततो भल्लं सौभद्रः परवीरहा 016c उद्बबर्ह महाबाहुर्निर्मुक्तोरगसन्निभम् 017a स तस्य भुजनिर्मुक्तो लक्ष्मणस्य सुदर्शनम् 017c सुनसं सुभ्रु केशान्तं शिरोऽहार्षीत्सकुण्डलम् 017e लक्ष्मणं निहतं दृष्ट्वा हा हेत्युच्चुक्रुशुर्जनाः 018a ततो दुर्योधनः क्रुद्धः प्रिये पुत्रे निपातिते 018c हतैनमिति चुक्रोश क्षत्रियान्क्षत्रियर्षभः 019a ततो द्रोणः कृपः कर्णो द्रोणपुत्रो बृहद्बलः 019c कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन् 020a स तान्विद्ध्वा शितैर्बाणैर्विमुखीकृत्य चार्जुनिः 020c वेगेनाभ्यपतत्क्रुद्धः सैन्धवस्य महद्बलम् 021a आवव्रुस्तस्य पन्थानं गजानीकेन दंशिताः 021c कलिङ्गाश्च निषादाश्च क्राथपुत्रश्च वीर्यवान् 021e तत्प्रसक्तमिवात्यर्थं युद्धमासीद्विशाम्पते 022a ततस्तत्कुञ्जरानीकं व्यधमद्धृष्टमार्जुनिः 022c यथा विवान्नित्यगतिर्जलदाञ्शतशोऽम्बरे 023a ततः क्राथः शरव्रातैरार्जुनिं समवाकिरत् 023c अथेतरे सन्निवृत्ताः पुनर्द्रोणमुखा रथाः 023e परमास्त्राणि धुन्वानाः सौभद्रमभिदुद्रुवुः 024a तान्निवार्यार्जुनिर्बाणैः क्राथपुत्रमथार्दयत् 024c शरौघेणाप्रमेयेण त्वरमाणो जिघांसया 025a सधनुर्बाणकेयूरौ बाहू समुकुटं शिरः 025c छत्रं ध्वजं नियन्तारमश्वांश्चास्य न्यपातयत् 026a कुलशीलश्रुतबलैः कीर्त्या चास्त्रबलेन च 026c युक्ते तस्मिन्हते वीराः प्रायशो विमुखाभवन्