001 सञ्जय उवाच 001a आददानस्तु शूराणामायूंष्यभवदार्जुनिः 001c अन्तकः सर्वभूतानां प्राणान्काल इवागते 002a स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली 002c अभिमन्युस्तदानीकं लोडयन्बह्वशोभत 003a प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः 003c सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम् 004a सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः 004c प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन् 005a अहं पूर्वमहं पूर्वमिति क्षत्रियपुङ्गवाः 005c स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम् 006a क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम् 006c जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे 007a ये केचन गतास्तस्य समीपमपलायिनः 007c न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः 008a महाग्राहगृहीतेव वातवेगभयार्दिता 008c समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे 009a अथ रुक्मरथो नाम मद्रेश्वरसुतो बली 009c त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत् 010a अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते 010c अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः 011a एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान् 011c सुकल्पितेनोह्यमानः स्यन्दनेन विराजता 012a सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत् 012c त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः 013a स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ 013c भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत् 014a दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम् 014c जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना 015a सङ्ग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः 015c वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः 016a तालमात्राणि चापानि विकर्षन्तो महारथाः 016c आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन् 017a शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः 017c दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम् 018a छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत् 018c वैवस्वतस्य भवनं गतमेनममन्यत 019a सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः 019c अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः 020a ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष 020c आचितं समपश्याम श्वाविधं शललैरिव 021a स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः 021c गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत् 022a अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम् 022c तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान् 023a एकः स शतधा राजन्दृश्यते स्म सहस्रधा 023c अलातचक्रवत्सङ्ख्ये क्षिप्रमस्त्राणि दर्शयन् 024a रथचर्यास्त्रमायाभिर्मोहयित्वा परन्तपः 024c बिभेद शतधा राजञ्शरीराणि महीक्षिताम् 025a प्राणाः प्राणभृतां सङ्ख्ये प्रेषिता निशितैः शरैः 025c राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः 026a धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान् 026c शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः 027a चूतारामो यथा भग्नः पञ्चवर्षफलोपगः 027c राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम् 028a क्रुद्धाशीविषसङ्काशान्सुकुमारान्सुखोचितान् 028c एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत् 029a रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान् 029c दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः 030a तयोः क्षणमिवापूर्णः सङ्ग्रामः समपद्यत 030c अथाभवत्ते विमुखः पुत्रः शरशतार्दितः