001 सञ्जय उवाच 001a सैन्धवेन निरुद्धेषु जयगृद्धिषु पाण्डुषु 001c सुघोरमभवद्युद्धं त्वदीयानां परैः सह 002a प्रविश्य त्वार्जुनिः सेनां सत्यसन्धो दुरासदाम् 002c व्यक्षोभयत तेजस्वी मकरः सागरं यथा 003a तं तथा शरवर्षेण क्षोभयन्तमरिन्दमम् 003c यथाप्रधानाः सौभद्रमभ्ययुः कुरुसत्तमाः 004a तेषां तस्य च सम्मर्दो दारुणः समपद्यत 004c सृजतां शरवर्षाणि प्रसक्तममितौजसाम् 005a रथव्रजेन संरुद्धस्तैरमित्रैरथार्जुनिः 005c वृषसेनस्य यन्तारं हत्वा चिच्छेद कार्मुकम् 006a तस्य विव्याध बलवाञ्शरैरश्वानजिह्मगैः 006c वातायमानैरथ तैरश्वैरपहृतो रणात् 007a तेनान्तरेणाभिमन्योर्यन्तापासारयद्रथम् 007c रथव्रजास्ततो हृष्टाः साधु साध्विति चुक्रुशुः 008a तं सिंहमिव सङ्क्रुद्धं प्रमथ्नन्तं शरैररीन् 008c आरादायान्तमभ्येत्य वसातीयोऽभ्ययाद्द्रुतम् 009a सोऽभिमन्युं शरैः षष्ट्या रुक्मपुङ्खैरवाकिरत् 009c अब्रवीच्च न मे जीवञ्जीवतो युधि मोक्ष्यसे 010a तमयस्मयवर्माणमिषुणा आशुपातिना 010c विव्याध हृदि सौभद्रः स पपात व्यसुः क्षितौ 011a वसात्यं निहतं दृष्ट्वा क्रुद्धाः क्षत्रियपुङ्गवाः 011c परिवव्रुस्तदा राजंस्तव पौत्रं जिघांसवः 012a विस्फारयन्तश्चापानि नानारूपाण्यनेकशः 012c तद्युद्धमभवद्रौद्रं सौभद्रस्यारिभिः सह 013a तेषां शरान्सेष्वसनाञ्शरीराणि शिरांसि च 013c सकुण्डलानि स्रग्वीणि क्रुद्धश्चिच्छेद फाल्गुनिः 014a सखड्गाः साङ्गुलित्राणाः सपट्टिशपरश्वधाः 014c अदृश्यन्त भुजाश्छिन्ना हेमाभरणभूषिताः 015a स्रग्भिराभरणैर्वस्त्रैः पतितैश्च महाध्वजैः 015c वर्मभिश्चर्मभिर्हारैर्मुकुटैश्छत्रचामरैः 016a अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 016c अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा युगैः 017a अनुकर्षैः पताकाभिस्तथा सारथिवाजिभिः 017c रथैश्च भग्नैर्नागैश्च हतैः कीर्णाभवन्मही 018a निहतैः क्षत्रियैः शूरैर्नानाजनपदेश्वरैः 018c जयगृद्धैर्वृता भूमिर्दारुणा समपद्यत 019a दिशो विचरतस्तस्य सर्वाश्च प्रदिशस्तथा 019c रणेऽभिमन्योः क्रुद्धस्य रूपमन्तरधीयत 020a काञ्चनं यद्यदस्यासीद्वर्म चाभरणानि च 020c धनुषश्च शराणां च तदपश्याम केवलम् 021a तं तदा नाशकत्कश्चिच्चक्षुर्भ्यामभिवीक्षितुम् 021c आददानं शरैर्योधान्मध्ये सूर्यमिव स्थितम्