001 धृतराष्ट्र उवाच 001a बालमत्यन्तसुखिनमवार्यबलदर्पितम् 001c युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम् 002a गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः 002c अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी 003 सञ्जय उवाच 003a युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ 003c धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः 003e धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे 004a अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः 004c तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन् 005a ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम् 005c जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत् 006a सैन्धवस्य महाराज पुत्रो राजा जयद्रथः 006c स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत् 007a उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन् 007c वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान् 008 धृतराष्ट्र उवाच 008a अतिभारमहं मन्ये सैन्धवे सञ्जयाहितम् 008c यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत् 009a अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे 009c तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः 010a किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः 010c सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत् 011 सञ्जय उवाच 011a द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः 011c मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः 012a इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः सन्निवर्त्य सः 012c क्षुत्पिपासातपसहः कृशो धमनिसन्ततः 012e देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम् 013a भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम् 013c स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम् 013e वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि 014a एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः 014c उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान् 015a पाण्डवेयानहं सङ्ख्ये भीमवीर्यपराक्रमान् 015c एको रणे धारयेयं समस्तानिति भारत 016a एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् 016c ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् 017a धारयिष्यसि सङ्ग्रामे चतुरः पाण्डुनन्दनान् 017c एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः 018a स तेन वरदानेन दिव्येनास्त्रबलेन च 018c एकः सन्धारयामास पाण्डवानामनीकिनीम् 019a तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत् 019c परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत् 020a दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम् 020c उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम्