001 सञ्जय उवाच 001a सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः 001c तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत् 002a सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम् 002c सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव 003a पितृपैतामहं कर्म कुर्वाणमतिमानुषम् 003c दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन् 004a तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा 004c शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि 005a कर्णिकारमिवोद्धूतं वातेन मथितं नगात् 005c भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ 006a विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः 006c अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे 007a ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत् 007c झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः 008a कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना 008c अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत 009a शलभैरिव चाकाशे धाराभिरिव चावृते 009c अभिमन्योः शरै राजन्न प्राज्ञायत किञ्चन 010a तावकानां तु योधानां वध्यतां निशितैः शरैः 010c अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत 011a सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः 011c शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ 012a स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून् 012c मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत 013a रथनागाश्वमनुजानर्दयन्निशितैः शरैः 013c स प्रविश्याकरोद्भूमिं कबन्धगणसङ्कुलाम् 014a सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः 014c स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः 015a ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः 015c निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुन्धराम् 016a सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे 016c दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः 017a शराश्चापानि खड्गाश्च शरीराणि शिरांसि च 017c सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः 018a अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः 018c अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः 018e शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः 019a निहतैः क्षत्रियैरश्वैर्वारणैश्च विशाम्पते 019c अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा 020a वध्यतां राजपुत्राणां क्रन्दतामितरेतरम् 020c प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः 020e स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत् 021a सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान् 021c व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन् 022a तं तदा नानुपश्याम सैन्येन रजसावृतम् 022c आददानं गजाश्वानां नृणां चायूंषि भारत 023a क्षणेन भूयोऽपश्याम सूर्यं मध्यन्दिने यथा 023c अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान् 024a स वासवसमः सङ्ख्ये वासवस्यात्मजात्मजः 024c अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत