001 सञ्जय उवाच 001a शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम् 001c अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत् 002a दिष्ट्या पश्यामि सङ्ग्रामे मानिनं शत्रुमागतम् 002c निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम् 003a यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः 003c कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः 003e जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता 004a परवित्तापहारस्य क्रोधस्याप्रशमस्य च 004c लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च 005a पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम् 005c तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम् 006a सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते 006c शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः 007a अद्याहमनृणस्तस्य कोपस्य भविता रणे 007c अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः 008a अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि 008c न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् 009a एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम् 009c सन्दधे परवीरघ्नः कालाग्न्यनिलवर्चसम् 010a तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम् 010c अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत् 011a स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् 011c दुःशासनो महाराज कश्मलं चाविशन्महत् 012a सारथिस्त्वरमाणस्तु दुःशासनमचेतसम् 012c रणमध्यादपोवाह सौभद्रशरपीडितम् 013a पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम् 013c पाञ्चालाः केकयाश्चैव सिंहनादमथानदन् 014a वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः 014c प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः 015a पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम् 015c अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम् 016a धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा 016c धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः 017a सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ 017c केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृञ्जयाः 018a पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः 018c अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः 019a ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह 019c जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम् 020a दुर्योधनो महाराज राधेयमिदमब्रवीत् 020c पश्य दुःशासनं वीरमभिमन्युवशं गतम् 021a प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे 021c सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः 022a ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम् 022c अभ्यवर्षत सङ्क्रुद्धः पुत्रस्य हितकृत्तव 023a तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः 023c अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे 024a अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः 024c अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः 025a तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे 025c आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान् 026a ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम् 026c सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन् 027a सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान् 027c समरे शत्रुदुर्धर्षमभिमन्युमपीडयत् 028a स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः 028c समरेऽमरसङ्काशः सौभद्रो न व्यषीदत 029a ततः शिलाशितैस्तीक्ष्णैर्भल्लैः सन्नतपर्वभिः 029c छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत् 029e स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत् 030a ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः 030c सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम् 031a तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः 031c वादित्राणि च सञ्जघ्नुः सौभद्रं चापि तुष्टुवुः