001 धृतराष्ट्र उवाच 001a द्वैधीभवति मे चित्तं ह्रिया तुष्ट्या च सञ्जय 001c मम पुत्रस्य यत्सैन्यं सौभद्रः समवारयत् 002a विस्तरेणैव मे शंस सर्वं गावल्गणे पुनः 002c विक्रीडितं कुमारस्य स्कन्दस्येवासुरैः सह 003 सञ्जय उवाच 003a हन्त ते सम्प्रवक्ष्यामि विमर्दमतिदारुणम् 003c एकस्य च बहूनां च यथासीत्तुमुलो रणः 004a अभिमन्युः कृतोत्साहः कृतोत्साहानरिन्दमान् 004c रथस्थो रथिनः सर्वांस्तावकानप्यहर्षयत् 005a द्रोणं कर्णं कृपं शल्यं द्रौणिं भोजं बृहद्बलम् 005c दुर्योधनं सौमदत्तिं शकुनिं च महाबलम् 006a नानानृपान्नृपसुतान्सैन्यानि विविधानि च 006c अलातचक्रवत्सर्वांश्चरन्बाणैः समभ्ययात् 007a निघ्नन्नमित्रान्सौभद्रः परमास्त्रः प्रतापवान् 007c अदर्शयत तेजस्वी दिक्षु सर्वासु भारत 008a तद्दृष्ट्वा चरितं तस्य सौभद्रस्यामितौजसः 008c समकम्पन्त सैन्यानि त्वदीयानि पुनः पुनः 009a अथाब्रवीन्महाप्राज्ञो भारद्वाजः प्रतापवान् 009c हर्षेणोत्फुल्लनयनः कृपमाभाष्य सत्वरम् 010a घट्टयन्निव मर्माणि तव पुत्रस्य मारिष 010c अभिमन्युं रणे दृष्ट्वा तदा रणविशारदम् 011a एष गच्छति सौभद्रः पार्थानामग्रतो युवा 011c नन्दयन्सुहृदः सर्वान्राजानं च युधिष्ठिरम् 012a नकुलं सहदेवं च भीमसेनं च पाण्डवम् 012c बन्धून्सम्बन्धिनश्चान्यान्मध्यस्थान्सुहृदस्तथा 013a नास्य युद्धे समं मन्ये कञ्चिदन्यं धनुर्धरम् 013c इच्छन्हन्यादिमां सेनां किमर्थमपि नेच्छति 014a द्रोणस्य प्रीतिसंयुक्तं श्रुत्वा वाक्यं तवात्मजः 014c आर्जुनिं प्रति सङ्क्रुद्धो द्रोणं दृष्ट्वा स्मयन्निव 015a अथ दुर्योधनः कर्णमब्रवीद्बाह्लिकं कृपम् 015c दुःशासनं मद्रराजं तांस्तांश्चान्यान्महारथान् 016a सर्वमूर्धावसिक्तानामाचार्यो ब्रह्मवित्तमः 016c अर्जुनस्य सुतं मूढं नाभिहन्तुमिहेच्छति 017a न ह्यस्य समरे मुच्येदन्तकोऽप्याततायिनः 017c किमङ्ग पुनरेवान्यो मर्त्यः सत्यं ब्रवीमि वः 018a अर्जुनस्य सुतं त्वेष शिष्यत्वादभिरक्षति 018c पुत्राः शिष्याश्च दयितास्तदपत्यं च धर्मिणाम् 019a संरक्ष्यमाणो द्रोणेन मन्यते वीर्यमात्मनः 019c आत्मसम्भावितो मूढस्तं प्रमथ्नीत माचिरम् 020a एवमुक्तास्तु ते राज्ञा सात्वतीपुत्रमभ्ययुः 020c संरब्धास्तं जिघांसन्तो भारद्वाजस्य पश्यतः 021a दुःशासनस्तु तच्छ्रुत्वा दुर्योधनवचस्तदा 021c अब्रवीत्कुरुशार्दूलो दुर्योधनमिदं वचः 022a अहमेनं हनिष्यामि महाराज ब्रवीमि ते 022c मिषतां पाण्डुपुत्राणां पाञ्चालानां च पश्यताम् 022e ग्रसिष्याम्यद्य सौभद्रं यथा राहुर्दिवाकरम् 023a उत्क्रुश्य चाब्रवीद्वाक्यं कुरुराजमिदं पुनः 023c श्रुत्वा कृष्णौ मया ग्रस्तं सौभद्रमतिमानिनौ 023e गमिष्यतः प्रेतलोकं जीवलोकान्न संशयः 024a तौ च श्रुत्वा मृतौ व्यक्तं पाण्डोः क्षेत्रोद्भवाः सुताः 024c एकाह्ना ससुहृद्वर्गाः क्लैब्याद्धास्यन्ति जीवितम् 025a तस्मादस्मिन्हते शत्रौ हताः सर्वेऽहितास्तव 025c शिवेन ध्याहि मा राजन्नेष हन्मि रिपुं तव 026a एवमुक्त्वा नदन्राजन्पुत्रो दुःशासनस्तव 026c सौभद्रमभ्ययात्क्रुद्धः शरवर्षैरवाकिरन् 027a तमभिक्रुद्धमायान्तं तव पुत्रमरिन्दमः 027c अभिमन्युः शरैस्तीक्ष्णैः षड्विंशत्या समर्पयत् 028a दुःशासनस्तु सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः 028c अयोधयत सौभद्रमभिमन्युश्च तं रणे 029a तौ मण्डलानि चित्राणि रथाभ्यां सव्यदक्षिणम् 029c चरमाणावयुध्येतां रथशिक्षाविशारदौ 030a अथ पणवमृदङ्गदुन्दुभीनां कृकरमहानकभेरिझर्झराणाम् 030c निनदमतिभृशं नराः प्रचक्रुर्लवणजलोद्भवसिंहनादमिश्रम्